SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ | लोवस्था त्वत्पादान्ते हिंसामलीकमदत्तं मैथुनं परिग्रहं निशाभुक्तं क्रोधमानमायालोभं रागद्वेषकलहं चाभ्याख्यानं रतिमरतिं परनिन्दनं ४ मायामृषां तथा मिथ्यात्वशल्यनामकं, अष्टादशेमानि पापस्थानानि त्यजामि । यद्यपीष्टं प्रियं कान्तं लालितं पालितं चिरकालं संभालित| मिदं शरीरमन्तिमश्वासोच्छ्वासेन त्रिविधं त्रिविधेन व्युत्सृजामि" । इति भावांबुना धतकलुषात्मा विपद्य सर्वार्थसिद्धाख्ये पश्चमानुत्तरविमाने सुरोत्तमोऽभूत् । भो भविका इत्थं भावस्य माहात्म्यं ज्ञात्वा धर्मकृत्येषु भावप्रधानेन भाव्यं । इत्यादि श्रीपार्श्वजिनेन्द्रस्य देशनां श्रुत्वा बहवो जनाश्चारित्रं जगृहुः । केऽपि श्राद्धधर्म जगृहुः । केपि सम्यक्त्वं प्रतिपेदिरे । केपि भद्रकतां ययुः। श्रीमदश्वसेननृपोऽपि प्रभोर्वदनपंकजजां देशनां निशम्य हस्तिसेनाय सूनवे राज्यं दत्वा दीक्षां जग्राह । वामादेवीप्रभावत्यौ भवतारिणी वाणीं प्रभोः सकाशाच्छ्रुत्वा हृदि विभाव्य दीक्षां जगृहतुः । प्रभुणा तत्र दशगणधरस्थापना कृता । तेषां नामान्याहआर्यदत्त आर्यघोषो विशिष्टो ब्रह्मनामकः । सोमश्च श्रीधरो वीरसेनो भद्रयशा जयः ॥१॥ ... विजयश्चेति गणभृन्नामकर्मभृतो दश ॥ एतेषामत्पादविगमधौव्यरूपां पदत्रयीं प्रभुराख्यत् । ते गणधरास्तदा द्वादशांगीमसूत्रयन् । अथ विभुः श्रीपार्श्वजिनेन्द्रः लासमत्थाय तेषां मौलिषु शक्रोपढौकितानि रत्नस्थालस्थितानि दिव्यवासांसि न्यक्षिपत् । तत्र प्रभुणा दुन्दुभिध्यानपूर्वकं सुरेन्द्र-16 समर्थ चतर्विधसंघस्थापना कृता । प्रभुस्तत्रोपविश्यानुशिष्टिं व्यधात् । तदनु प्रभुः प्रथमपौरुष्यां देशनां विसयं तत उत्थायेशान| दिस्थिते देवकृते दिव्यदेवच्छन्दे गत्वा विश्रामसुखमनुबभूव ॥ Latin Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy