SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ रित्यायुक्तो राजा भावनां भवति । कंडरीकोऽपि साधुभिः सह विहारं कुर्वन् चारित्रं प्रतिपालयति । एवं बहुकालो ययौ ।। एकदा पुष्पावतीपुरीवनासन्ने स्थविराः समवसृताः । तत्र पुरीजनाः केचिन्द्वन्दनार्थ समागताः । तदा कंडरीको नियंजनं * ध्यानमकार्षीत् । तदा वसन्तक्रीडार्थ केचिनागराः क्रीडन्ति नृत्यन्ति हसन्ति जल्पन्ति तल्पन्ति गायन्ति वाद्यन्ति । एवं च | वसन्ते विलसन्ति तदा तस्य व्रतविघातकृच्चारित्रावरणीयाख्यं कर्कशं कर्म समुदीर्ण--" एते जना धन्याः, ये गृहे स्थिताः संसारसुखं भुञ्जन्ति नृत्यन्ति गायन्ति स्रक्चन्दनवनितादीनां सुखं गृह्णन्ति इच्छाहारं भुजन्ति । अहं तु प्रवज्यां गृहीत्वा नरकोपमे दुःखे स्थितोऽस्मि । क्षणमात्रमपि मम सुखं नास्ति । तुच्छाहारः सोऽपि शीतलः । कदनं ज्वलिताहारभोजनं परीषहसहनं नरकोपमं दुःखं केन भोक्तुं शक्यते । अनया दुःखदायिन्या दीक्षयाऽलं । राज्यमेव समाश्रयामि"। इति विचिन्त्य भग्नमना भावभ्रष्टः समजनि । तं तथाविधं ज्ञात्वा साधवोऽपि तत्यजुः । गुरुणाप्युपेक्षितः । अन्यदैकस्मिन्नवसरे द्रव्यलिंगोपकरणान्वितः स्वनगरीबहिरुधानसीमनि गत्वा तस्थो । तरुशास्खायां पात्रकं पालंब्य हरितावनी निवेश्योद्यानपालक पमाकारयामास । | उद्यानपालकन गत्वा नृपस्योक्तं-'स्वामिन् एकाकी कंडरीक इहायतः । तदा स संभ्रातश्चमूवृतो भूपतिस्तत्राययौ । तं भग्नपरिणामं विदित्वा तं वन्दित्वाऽब्रवीत्-" त्वं पूज्यः, त्वं महानुभावः, त्वं धन्यः, येन त्वया तारुण्ये वयसि व्रतं गृहीतं । चारित्रं शुद्ध प्रतिपालयसि" । इत्यादिकोमलवाक्यैः प्रेरितो लज्जितः ततः स्थानाद्गतः । मनसा भग्नचारित्रो वेलया क्रियां न | करोति । यतः | यद्यपि मृगमदचन्दनकुंकुमकरिवेष्टितो लसुनः । तदपि न मुञ्चति गन्धं प्रकृतिगुणा जातिदोषेण ॥१॥ ROACAR RRCRORECAX en Education international For Personal & Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy