________________
काभिधौ तनयौ बभूवतुः । नृपो न्यायेन राज्यं प्रजां च पालयति । अन्यदा बहिर्नलिनीवनोद्याने बहुसाधुपरिवारप रिवृताः श्रीसुव्रताचार्यगुरवः समवसृताः । महापद्मो नृपस्तदागमनं ज्ञात्वा तत्र वने गत्वा गुरुं नत्वा भूभागे समुपविष्टः । गुरुधर्ममादिशत्
चारि परमंगानि दुल्लहाणी य जंतुणो । माणुसत्तं सुई सध्धा संजमे मह वीरियं ॥ १ ॥
इत्यादि गुरूपदिष्टां धर्मदेशनां श्रुत्वा महीपतिर्जातश्रद्धः पुंडरीकज्येष्ठपुत्रस्य राज्यभारं न्यस्य स्वयं व्रतमग्रहीत् । स चतुदेश पूर्वाणि समधीत्य विविधैस्तपोभिः श्रामण्यं पर्यपालयत् । मासमेकं संलेखनां कृत्वा प्रान्ते देहं हित्वा सर्वदुःखपरिक्षीणो निर्वापदमासदत् । अथ कियता कालेन त एव स्थविरास्तत्रैव विहारं कुर्वन्त श्रेयुः । पुंडरीको भूपतिः स्थविरागमनं ज्ञात्वा सानुजः सपरिच्छदो वन्दितुं गतः । गुरुं भक्त्या वन्दते । गुरुणा सविस्तरा धर्मदेशना दत्ता । पुंडरीकोऽपि तां धर्मदेशनां विभावयन् लघुकर्मतया संजातसंवेगः पुरीं प्राविशत् । निजामात्याना कार्य कंडरीकं पुरस्कृत्य सहर्षमिदमत्रवीत् - " वत्स मया भोगा मुक्ताः । । अक्षतं राज्यं च पालितं । राजानो वशीकृताः । क्षोणिमंडलं साधितं । देवगुरवोऽपि पूजिताः । गृहिधर्मो निषेवितः । स्वजनाः सत्कृताः । अर्थिनः सफलीकृता । यशोऽर्जितं । अधुना मम तारुण्यं याति । जरा निकटं समभ्येति । मृत्युरासन्नतामेति । पुनर्जीवन पुनर्जन्म पुनर्मृत्युः पुनर्दिवसः पुनर्निशा । एवं संसारो विडंबनाप्रायः । मया च गुरुवचः श्रुतं । अहं संसाराद्विरक्तोऽस्मि । तस्माच्चमिदं राज्यं गृहाण । नीत्या राज्यं प्रजां च पालय । अहं च सुगुरोः पार्श्वे गत्वा सर्वार्थसिद्धिकरीं दीक्षां ग्रहीष्ये " । कंडरीको जगौ —
Jain Educamational
For Personal & Private Use Only
-
www.jainelibrary.org