________________
२२॥
प्रकटो दृश्यते, भावव्याधिस्तु कर्म, तस्य त्वं प्रतिक्रियां करिष्यसि ? ' । शक्रेणोक्तं-- 'स्वः मिन् कर्मव्याधिरुत्वणः तं छेत्तुं न शक्नोमि । मुनिर्निजांगुलिं श्लेष्मणा लिवा स्वर्णवर्णां विधाय दर्शयामास - भो वैद्यराज मम कर्माणि मयैव भोक्तव्यानि, अतः किं प्रतिक्रियां करोमि ? ' ततः प्रशंसापर इन्द्रस्त्रिप्रदक्षिणां दत्वा खस्वरूपं प्रकटं कृत्वा मुनिं भूयो भूयोऽभवन्द्य स्वास्पदं ययौं । श्रीमान् सनत्कुमारमुनीन्द्रोऽपि कर्मक्षयं कृत्वायुः परिपूर्य सनः कुमाराख्यं तृतीयकल्पं जगाम । तत्रायुः पूर्ण भुक्त्वा महाविदेहे सिद्धः । ईदृशं तपोमाहात्म्यं विज्ञाय कर्मनिर्मूलनोद्यमपरैर्महात्मभिर्यथा शक्त्या तपः कार्यं ।
अधुना भावना प्रतन्यते—घर्मस्य मित्रं भावः । कर्मेन्धनानलो भावः । सत्कृत्यान्नेषु घृतं भाव एव । सुकृतलेशोऽपि भावान्नृणां सर्वार्थसिद्धिदः । यतः—
निच्चुण्णो तंबोलो पासेण विणा ण होइ जह रंगो। तह दाणसीलतवपूयणाओ अहलाओ भावविण || १ || भावभ्रष्टानां नराणां तु सर्वत्र भ्रष्टता भवेत् । भावेनैकदिनमपि चारित्रं पालितं सद्गतये भवति । तत्र पुंडरीककंडरीकनिदर्शनं कथ्यमानं श्रूयतां । तथाहि
अथ पुंडरीककंडरीककथा ॥
अस्मिन्नेव जंबूद्वीपे महाविदेहक्षेत्रे पुष्कलावत्यां विजये श्रीपुंडरीकिणी नगर्यस्ति । तत्र नयश्रियः पात्रं महापद्माभिधो र। जास्ति । तस्य शीलविनयविवेकौदार्य चारुचातुर्यवती पद्मावती नाम प्रिवास्ति । तस्य नृपस्य शस्त्रशास्त्रविशारदौ पुंडरीककंडरी -
For Personal & Private Use Only
चरित्र
॥१२२॥
jainelibrary.org