SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ नृपोऽध विस्मितो दिव्यकटकांगदभूषितं सम्यगालोकनात् बाहुयुग्मं विच्छायमैक्षत । हारार्धहाराद्यैर्भूषितं वक्षःस्थलं रजश्छनार्कविवनिःश्रीकं सोऽपश्यत् । एवं सर्वमप्यंगं निष्प्रभं दृष्ट्वाऽचिन्तयत्-" अहो संसारः कीदृशः ? एवंविधं मदीयं सुन्दरं रूपं विच्छायं जातं । अहो कस्य शरणं । न कोऽपि कस्य केनापि रक्षितुं शक्यते । ते महात्मानो ये सर्वसंगं त्यक्त्वा वने गत्वा परिव्रज्य | चारित्रमाचरन्ति" । इति ध्यात्वा सहसोप्तनवैराग्यो निःसंगो विनयंधरगुर्वन्निके नृपः प्रावाजीद् । ततः स्त्रीरत्नमुख्यानि चतुर्दश रत्नानि नरेन्द्रा आभियौगिकदेवाः स्कन्धावारजना अपि तस्य मार्गानुलनाः पण्मासान् यावदभ्रमन् । तेन चक्रषिणा ते न वीक्षिताः । अगन्धनकुले जाता नागाः किं वान्तमिच्छन्ति । तथैव तेन वान्ताहारवत्सर्वं त्यक्तं । अथ स पूज्यः पठभक्तान्ते गोचरचर्यया भ्रमन् चीनकूरमजातकं लब्धवान् । तदवाशन भुक्त्वा महान् स पुनः पप्ठोपवासं विदधे । तद्दिनादारभ्य दुष्टव्याधयोऽभवन् । तद्यथा शुप्ककच्छ ज्वरः कासः श्वास अन्नारुचिस्तथा । अक्षिदुःखं तुन्ददुःखं सप्तेतेऽत्यन्तदारुणाः॥१॥ अन्येऽपि बहवो रोगाः प्रादुर्बभूवुः । सप्त वर्षशतानि तानधिसह्य दीप्तोग्रतपांसि तपति । तस्य तपस्तपतः कफश्लेष्मविण्म- 11 लामर्शसर्वोपधिमहध्धयः मंभिन्नश्रोतोलब्धिश्च एवंविधाः सप्त लब्धयोऽभवन् । तथापि स महामुनीश्वरो रोगप्रतीकारं न चक्रे । | अथ नाधमन्द्रः सभायां माधुवर्णनं कुर्वन् वैद्यरूपं निर्माय मुनिपाचे समागान् । मुनि बददि--"भगवन्ननु जानीहि । अहं तव |व्याधिप्रतिकियां कुर्वे । त्वं निरपेक्षोऽसि तथाप्यहं तव व्याधिनाशं करोमि" । मुनिराह-'भो वैद्य द्रव्यव्याधिरस्ति भावपा-1* माधिश्वास्ति. त्वं कस्य प्रतीकार करिष्यसि ?'। धेनोक्तं- द्रव्यव्याधिभावव्याधिभेदी नाहं जाने' । मुनिरूवे- द्रव्यच्याधिः Main Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy