________________
१९॥
गोषे पर्वताग्रे च प्रासादे सफले द्रुमे । आरोहणं गजेन्द्रेऽपि स्वप्नशास्त्रे प्रशस्यते ॥ १ ॥
पूर्वं मयेदृशः शैलराजो दृष्टोऽस्ति " । इति चिन्तयतस्तस्य शुभाध्यवसायाजातिस्मरणमभूत् । “ पूर्व मनुष्यभवे श्रामण्यं कृत्वा दशमे प्राणते कल्पे सुरोऽहमभूवं । ततोऽर्हजन्ममहोत्सवेऽहं मन्दरगिरौ समेतोऽभूवं । तदा मया मेरुर्दृष्टः " । ततो बुद्धः स्वयमेव स्वकी - ये साम्राज्ये सुतं न्यस्य देवतादचलिंगः सन् प्रव्रज्यां प्रपन्नवान् । तदा शक्रो विप्रवेशधरस्तं पुर्या निर्यान्तमालोक्य परीक्षितुं समाययौ । शक्रस्तं वदति - " भो महाराज तवेदं जीवदयावतं किं ? त्वद्रतग्रहणे चैषा पुरी क्रन्दति, तदयुक्तं परबाधाकरं व्रतं "। ततो मुनिर्ब्रते“ मम व्रतममीषां दुःखकारणं न किं तु स्वस्य कार्यहानिः दुःखस्य कारणं । ततोऽहमपि स्वकीयं कार्यं कुर्वे । ममान्यचिन्तया किं १" । पुनर्हरिराह - ' तवान्तःपुराणि गृहाणि च दद्यमानानि त्वं कथमुपेक्षसे ? ' । मुनिराह - ' अहं सुखेनास्मि । मिथिलायां दशमानायां किमपि मे न दह्यते ' । पुनराह हरिः - ' भोः पुर्यां दुर्गमं प्राकारं नानायंत्रयुतं कारयित्वा परिव्रज ' । राजर्षिः पुनराह - 'भो भद्र संयमो मम नगरं, शमाख्यः प्राकारः, नयाख्यो यंत्रोऽस्ति मम' । पुनः शक्रोऽब्रवीत् - ' भोः क्षत्रिय लोकानां निवासाय मनोहरान् प्रासादान् कारयित्वा परिव्रज । मुनिः प्रोचे - 'मम मन्दिरं निश्चलं मुक्तिपुरे कृतमस्ति ममान्यैः गृहैः किं ? ' । हरिः प्राह-- ' प्रथमं पुर्या चौरनिग्रहं कृत्वा पश्चात्परित्रजेः' । ऋषिरुवाच - 'भो महानुभाव मया रागाद्याश्वौरा निगृहीताः । वासवः प्राह'ये चोद्धता नृपास्त्वया निर्जिता न भवन्ति तान्निर्जित्य प्रव्रज्यां कुरु । ऋषिरुवाच- 'अन्येषां सुभटानां किं ? कर्मणां जयः स परमो जय एव' । वासवोऽब्रवीत् -'गृहवासात्परो धर्मो नास्ति, यत्र दीनानां दानं दीयते' । ऋषिरुवाच - ' गृहिधर्मः सावद्यः सर्षपतुल्यः, सुनि७ धमों निरवद्यो महामेरुगिरिवदुच्चः ' । हरिः प्राह – “ हस्तगतान् भोगान् कथं त्यजसि ! प्रथममतिदुर्लभान् भोगान् मुक्त्वा
6
ए
60
Jain Education International
For Personal & Private Use Only
चरित्र
॥११९॥
www.jainelibrary.org