________________
| आर्यया गदितं-'येन त्वं रोधितोऽसि स नमिनृपः तव सहोदरो बाह्येऽस्ति । ततो हषाकुलश्चन्द्रयशा नृपो नमिनृपमिलनार्थ | संमुखं गतः। नमिदृष्टः । सोऽपि तस्य संमुखमाययौ । नमिज्येष्ठबन्धुपादयोः पतितः। अन्योऽज्यं स्नेहेन मिलितौ । महोत्सवेन नगरं प्रवेश्य नर्मि चन्द्रयशा नृपोऽश्रपूर्णक्षणोऽवदत्-" वत्स पितुरेवं मृतिं दृष्ट्वा राज्ये मम रतिर्नास्ति । परं राज्यधृधराभावादियकालमहं स्थितः । इत्यादिवाक्यैः संबोध्य नमि राज्ये स्थापयित्वा प्रात्राजीत् । नमिः सूर्यवत्प्रतापवान् शुशुभेतरां । सुखेन बहुकालो ययौ। । अन्यदा नमिराजस्य महादाहज्वरस्तनौ प्रादुरभूत् । तदुपशमनार्थ भेषजान्यकरोत् , तथापि न शशाम । ततस्तस्योपशान्तये राज्यः स्वयं चन्दनानि घर्षयन्ति । तदा बाहुवलयश्रेणिरणत्काररवेर्नृपस्य कर्णाघातेनारतिभृशं जायते । ततो राझ्यः कंकणानि करादुत्तारयामासुः । एकैकं कंकणं करे मंगलाय दधुः । अथ नृपोऽमात्यमपृच्छत् -'देव्यः किं चन्दनं न धर्षयन्ति ? यत्कारणाकंकणशब्दो न श्रूयते' । ततो मंत्रिजनोऽवादीत--"स्वामिन् ताः सर्वा अपि राज्यश्चन्दनं घर्षयन्यः सन्ति । करस्थैकैकं वलयं, तेन ध्वनिन श्रूयते" । तच्छ्रुत्वा नृपः संजातसंबोधश्छिन्नमोहो हृदि दध्यौ-" अहो भूरिसंयोगा दुःखदायकाः सन्ति, भूरिभिः कंकणैदुःखं, स्वल्पैः स्वल्पतरैः सुखं । यावदस्यैव दृष्टान्तादेकाकित्वे महत्सुखं । विस्तारः सर्वक्लेशाय मंझपान्तु मुखावहाः । अतः कारणादेकाकित्वं सुखावहं । यदि चाद्य निशायां मे दाहः कथमपि शाम्यति तदाहं सर्वसंगं परित्यज्यकाकीय चारित्रं गृह्णामि" इति चिन्तयन्नमिनृपः सुप्तः । निद्रा समागात् । निशान्ते मन्दरोपरि श्वेतगजारूढमात्मानं स्वप्ने पश्यति । प्रातः शंखतूयरवेण प्रतिवुध्धः सनिरामयः सन् दध्यौ-"अहो मया कीदृशोर्य स्वप्नः शुभो दृष्टः । यतः
Jan Education international
For Personal & Private Use Only
www.jainelibrary.org.