________________
S
चरित्र
तमिभं बलात्स्वपुरमानयत् । तज्ज्ञात्या चरपुरुषेनमिभूभुजः कथितं । तदा नमिराजेन दूतः प्रहितः। स गत्वोवाच-'नमी राजा स्वकीयं गजं याचते' । तदा चन्द्रयशा जगाद--"तव स्वामी किं ग्रहग्रथिलोऽस्ति ? यो निजं गजे याचते । मम परमेश्वरेण दत्तः । यतः-
न श्रीः कुलकमायाता शासने लिखितापि वा । खड़ेनाक्रम्य भुञ्जीत वीरभोग्या वसुन्धरा ॥१॥ ४ ___ इत्याद्युक्त्वाऽपमान्य नृपो दूतं व्यसर्जयत् । सोऽपि गत्वा नमेः सर्व सविशेष व्यजिज्ञपत् । तदा नमिः कुपितः प्रयाणभेरीभांIM कारनादेन सर्वबलेन सुदर्शनपुरोपरि चलितः । तदा चन्द्रयशा नृपः सोत्साहं नमिनृपं प्रति संग्रामार्थ चलितः। परं त्वपशकुनकरितः । तदा मंत्रिभिर्विज्ञप्तः–'राजेन्द्र गोपुराणि पिधायात्र तिष्ठ । पश्चाद्यथोचितं करिष्यामः' । सोऽपि राजा तथाऽकरोत् । नमिनृपतिरेत्य विष्वग् नगरमवेष्टयत् । ततश्चैप व्यतिकरो जनन्या सुव्रतार्यया ज्ञातः । मनसि चिन्तितं-"अपरिज्ञातपरमार्थावि-16
वभौ जनक्षयकर संग्रामं विधायाधोगतिं मा प्रयाता" । इति निश्चित्य गुरुणीं समापृच्छय सुसाध्वीपरिवारपरिवृता सुदर्शनपुरे । | नमिन शान्तिके समागच्छत् । तत्राभ्युत्थान विधाय परमासने निवेश्य नमिभूभुजा भक्त्या मदनरेखा वन्दिता । राज्ञि भूमौ निविष्टे साध्वी देशन विधाय रहस्यमिदमब्रवीत्-" राजन् राज्यश्रीरसारा, जीवघातेन जीरो ध्रुवं नरके प्रयाति, संग्रामान्निवर्तस्व । अन्यच्च ज्येष्ठभ्रा. सह कथं विग्रहः १"। नमिराजेन. पृष्टं-'कथं ममासौ ज्येष्ठभ्राता । ततः साध्व्या सर्व यथातथं ख्यातं । प्रत्ययार्थ मुद्रिकारत्ननले कथिते । पुष्पमालया पृष्टया ते तु दर्शिते । तथापि मानेन नमिनृपतिः संग्रामान व्यरमत् । ततः साध्वी चन्द्रयशःपावें गता । तेन राज्ञा सत्वरमुपलक्षिता, अभ्युत्थायासनं दत्वा नत्वा नृपो निविष्टवान् । अन्तःपुरपरिवारजनस्तां ननाम । 'भगवति किमेतदुग्रं व्रतं गृह ? सा निजं वृत्तान्तं यथावस्थितमकथयत् । राज्ञा प्रोक्तं-'मे सहोदरः स्वमसूचितः कुत्रास्ते ।
AHASREX
12
॥११८॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org