________________
.. एकदा मदनरेखया स्वप्ने चन्द्रो. दृष्टः । तया भर्तुः कथितं । सोऽप्याख्यत्-'चन्द्राभसुतसंभवो भविष्यति' । तस्य | गर्भानुभावेन तृतीये मासि दोहदो जज्ञे--जिनेन्द्रार्चनं करोमि, अर्हतां च कथां शृणोमि । सा संपूर्णदोहदा गर्भ वहते ।। अन्यदा वसन्तर्तुरागतः, तस्मिन् समये नागपुन्नागमालिकापाटलाकुन्दमुचुकुन्दएलालबंगककोलद्राक्षाखर्जूरिकाकदलीलवलीजाती-131 शतपत्रराजादनीसहकारचंपकप्रभृतयस्तरवो भृशं कुसुमिताः । बहवस्तत्रालिगणाः क्रीडन्ति । पिकशुकादयः पक्षिणस्तत्र वसन्ति हसन्ति जल्पन्ति तल्पन्ति कल्पन्ति । बस्मिन् वसन्ते युगवाहुः प्रियायुतः क्रीडार्थ तत्र वने ययौ । नागरजना अपि वहवस्तत्र क्रीडां कुर्वन्ति । जलक्रीडान्दोलनाद्यैः खाद्यस्वाद्यपानाशनादिभिर्व्यग्रस्य युवराजस्य दिनं क्षण इवाभवत् । रात्रौ तत्रैव कदलीगृहे सुज्वाप । परिवारस्तु कोऽपि पुरेऽगात् कोपि तत्रैव स्थितः । अथ मणिरथो नृपः स्वचित्ते दध्यो-' अद्य युगवाहुः स्वल्पपरिवारो वने स्थितोऽस्ति, तस्मादयमवसरः । इति विमृश्य नृपतिः खगकरस्तत्र वने गया यामिकान् पप्रच्छ--'भो युगवाहुः कुत्रा|स्ते?' तैरुक्तं-' स्वामिन् अस्मिन् कदलीगृहेऽस्ति' । नृपणोक्तं--' वने मद्भातरं कोऽपि शत्रुः परिभविष्यतीति अधृत्याऽहमायातः । तदा ससंभ्रमं युगवाहुः समुत्तस्थो । नृपसमीपे समागत्य नृपं प्रणमति । राज्ञाऽभाणि--' एहि पुरं यावः, निशायामात्मनोऽत्रावस्थानं न युक्तं' । ततो युगवाहुः प्रस्थातुमारेभे । "अयं ज्येष्ठभ्राता प्रभुः पितुः स्थानीयः हितकारकः अनुल्लंघ्याज्ञ एव" इति चिन्तयन् पुरसन्मुखं चचाल । ततः पापधिया राज्ञाऽपयशोभयमवगणय्यासिना स्कन्धे युगवाहुर्हतः । स मूर्छन् भुवि पपात | अहो अक्षत्रमक्षत्रमित्थं । मदनरेखया कूजित-'धावत धावत शीघ्रं शीघ्रं'। तदा खगोद्यतकरा. भटाः शीघ्र किमेतदिति जल्पन्तः समाययुः । तदा मणिरथनृपेणोक्तं- मा विभीत मा विभीत भोः प्रनादेन मत्करात् खड्गोऽपतत्
SCHEMORRHOCK-CROR
in Education internations
For Personal & Private Use Only
www.jainelibrary.org