SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ चरित्र शोचानां परमं शौचं गुणानां परमो गुणः। प्रभावमहिमा धाम शीलमेकं जगत्त्रये ॥१॥ . जवो हि सप्तेः परमं विभूषणं भागनायाः कृशता तपस्विनः। द्विजस्य विद्येव मुनेस्तथा क्षमा शीलं हि सर्वस्य जनस्य भूषणम् ॥२॥ तस्य शीलस्य नवमिता वाटिकाः सन्ति । तद्यथा - वसहि १ कह २ निसिजि ३ दिय ४ कुटिंतर ५ पुवकीलीय ६ पणीए ७। अइमायाहार ८ विभूसणाइ ९ नव वंभचेरगुत्ती य ॥१॥ अस्या व्याख्या-वसतिरुपाश्रयः यस्मिन् गृहेऽङ्गनाऽवस्थितिं करोति । अथवा गृहासन्ना स्त्रीवसतिः मेवोपाश्रयः ताज्य एव । कथा स्त्रिया सहालापस्त्याज्यः । निसिजा यत्र शयनासनेऽङ्गनोपविष्टा भवति तदेव शयनासनं घटिकाद्वयं यावच्याज्यं । इंदिय स्त्रीणामंगोपां गानि इन्द्रियाणि च न विलोकनीयानि । श्रीमदुत्तराध्यनेऽप्युक्तमस्ति-"चित्तभित्तिं न निज्जाए नारिं वां सुअलंकि" इत्याधुक्त- छत्वात् । स्त्रिया सहालपनं त्याज्यं । अंगोपांगेन्द्रियसन्मुस्वविलोकनं ब्रह्मचारिणा त्याज्यं । कुड्यन्तरे भित्तेरन्तरं त्याज्यं, यत्र गृहे पदंपती शयाते कंकणादिरावो हावभावविलासहास्यादिरावः श्रूयते तत्र गृहे मित्यन्तरे ब्रह्मचारिणा न स्थातव्यं । पुचकीलीआ || पूर्वक्रीडितं पूर्व क्रीडा कृता भवति सा न स्मरणीया । पणीए अत्यन्तसरसाहारस्त्याज्यः । अइमायाहार अतिमात्राहारो बहुः ११३॥ etion International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy