________________
4% A
जातः चिरकालं ऋद्धिसुखं भुक्त्वा चत्वारोपि द्वादशकल्पे दानप्रभावाद्देवा जाताः । ते चत्वारोऽपि देवजीवा आयुःक्षये च्युत्वा |
चतुषु देशेषु राजानो जाताः । परमर्दिवन्तो बभूवुः । नेपां पूर्वभवस्नेहादन्योऽन्यं परमप्रीतिर्जाता । ते चत्वारोऽपि एकस्मिन् देशे एकत्र Bा तिष्ठन्ति । राज्यसुखं भुक्त्वा पर्यन्ते व्रतं प्रतिपाल्य सिद्धाः॥
| अहो भव्यास्तत्त्वज्ञानं विना विद्या गुणाय न, शमवर्जिता तपस्यापि गुणाय लाभाय नो मन । मनःस्थैर्य विना तीर्थयात्रापि Mनो लाभाय । यदाहुः
प्रणिहन्ति क्षणार्धन साम्यमालंव्य कर्म तत् । यन्न हन्यान्नरस्तीत्रतपसा जन्मकोटिभिः ॥१॥ वीतरागं हृदि ध्यायन् वीतरागो यथा भवेत् । मुक्त्वाऽखिलमपध्यानं भ्रामरं ध्यानमाश्रय ॥२॥ स्थाने याने जनेऽरण्ये सुखे दुःखे तथा मनः । अभ्यस्यं वीतरागवे लयलीनं यथा भवेत् ।। ३॥ इन्द्रियाणां मनो नाथो मनोनाथो हि मारुतः । मारुतस्य लयो नाथो लयनाथो निरञ्जनः॥४॥ बद्धमावध्यते मुक्तमग्रहं स्यात्ततो बुधैः । वारणीयं धृतोन्मुक्तरज्जुबध्धोक्षवन्मनः ।।५॥ हृतिः पुष्पे घृतं दुग्धे तेजः काये यथा स्थितम् । ज्ञानं जीवे तथा किंतु व्यक्तीस्वात्परिकर्मणा ।।६॥
इत्थं दानस्य माहात्म्यं वर्णितं । द्वितीयं धर्मागं शीलं । यदाङः
RNE
For Personal Private Use Only