________________
1370
१२॥
रोदिति । तत्रामन्ना वाराणसीवनगजा सरस्वती तं विलपन्तमशृणोत् । तं दृष्ट्वा मूर्छिता सा भुवि पतिता । ततः सखीभिर्गत्वा राज्ञोऽग्रे निवेदितं । राजापि तत्रागात् सपरिच्छदः । कन्यापि शीतलयात वन्दनब्धता जाता । कन्यायै पृष्टं तव किं जातं ?' | ४) तयोक्तं - " अ.म तातायं मम पूर्वभवभर्ता । अन्ये पुरुषा सर्वेऽपि मे बान्धवाः । अयं मे वरः । एनं वृणोमि । " ततो राज्ञा कन्या विवाहिता । तया सह मंत्री भोगान् भुनक्ति | एकदा नृपतिस्तस्य राज्यं दत्वा प्रवज्यां जगृहे । भानुर्नृपो राज्यं पालयति । अन्यदा तस्या दाहज्वरस्य पीडा जाता । बहुभिरुपायैर्न शशाम । सा मृता । भानू राजा तस्या वियोगेन वैराग्येण व्रतं जग्राह । चारित्रं पालयति । सोऽहं । अतः कारणाज्जीवन्नरो भद्रशतानि पश्यति । महानुभाव धर्म कुरु । " चन्द्रेणोक्तं- ' भगवन्मम स्तोकेन बहुतरं शिक्षय ' । तदा साधुना पञ्चपरमेष्ठिनमस्कारः पाठितः । तेन शिक्षितः । साधुनोक्तं- 'अयं नित्यं स्मरणीयः सम्यक्त्वं पालनीयं । अथ चन्द्रस्तं मुनिं नत्वा प्रीतः पुष्पपुरं ययौ । तत्र महार्द्धको जातः । चन्द्रो भावेन नित्यं पञ्चपरमेष्ठिमंत्रं स्मरति । ततो विधिवशात्ते त्रयोऽपि सुहृदश्विरात्मिलिताः । चन्द्रो भानुर्भीमः कृष्णश्च चत्वारोऽपि निजं निजं वृत्तान्तं कथयन्ति । नमस्कारस्य माहात्म्यं ते त्रयोऽपि श्रुत्वा नमस्कारं शिक्षन्ते स्म । ते सर्वेऽपि व्यापारं कुर्वन्तो महयो जाताः । चत्वारोऽपि विमृशन्ति - ' ऋधिर्जाता, अतः स्वनगरे यामः, इति निश्चित्य प्रवहणेनोदधिमुल्लंघ्य एकत्र सरसि भोजनं कर्तुं स्थिताः । तत्र भोजनं पाचितं तस्मिन्नवसरे षण्मासोपवासी साधुरेको नगरे गोचरीं कर्तुं याति । तदा ते तं साधुमपश्यन् । तैः साधुर्निमंत्रितः'भगवन् पादाववधारयतु' । ततश्चन्द्रेण भावपूर्वकं मुनीश्वरः प्रतिलाभितः । अन्यैस्त्रिभिरप्यनुमोदना कृता । तत्र चतुर्भिरपि भोगकर्मफलमर्जितं । ते तु चत्वारोऽपि क्रमेण खनगरं जयपुरं क्षेमेण प्राप्ताः । तत्र स्वजनाः सर्वेऽपि मिलिताः । महावर्धापनोत्सवो
Jain Education International
For Personal & Private Use Only
चरित्र
॥ ११२ ॥
www.jainelibrary.org