________________
भवति ? इति' विमृश्योक्तं--"प्रिये अस्मिन् भवे त्वमेव भार्या। अथ च त्वयि जीवन्त्यामहं जीवामि, त्वयि च म्रियमाणायां प्राणत्यागं करोम्यहं" । एवं तयोः स्नेहप्रकर्षः प्रसिद्धिमगमत् । अन्यदा नृपः प्रधानयुक्तः कटकयात्रया दूरं गतः । एकस्मिन् दिने दंपतिविपये स्नेहवार्ताप्रस्तावे भानुमंत्री स्नेहस्वरूपं राज्ञः पुरोऽशंसत् । अन्यदा नृपेण परीक्षार्थमेकं नरं | जयपुरे प्रेपीत । तेन तत्र नृपादेशादलीका भानुमंत्रिणो विपत्तिवार्ता सरस्वत्यग्रे सदुःखं विनिर्मिता । तनिशम्य सरस्वती महसा संजातहृदयस्फोटा पञ्चत्वं प्राप्ता । स नरः कटके गत्वा भूपतेरकथयत् । वज्रघातसमं वाक्यं नृपः श्रुत्वा दध्यौ-"मया बीघातपातकं मुधा कृतं । तथा च सचिो यावदिमा वार्ता न शृणोति तावत्सचिवस्य प्राणरक्षोपायं करोमि" इति निश्चित्य सचिवोत्तारके नृपो गतः । अमात्योऽपि संभ्रमान्नृपमुपाच-'किमिदं स्व.मिन् भृत्यान्ते स्वयमागतः। नृपोऽवोचत्-'अहं तवान्तिके किंचिद्याचितुं समागतोऽस्मि' । मंत्री प्राह-'स्वामिन् समादिश्यतां । ततो नृपतिजगौ-"मया स्नेहपरीक्षार्थ तव मृतिस्तव भार्याने | कथापिता । तेन सा विपन्ना । अथ मदभ्यर्थनया त्वा मृर्तिन कार्या" । तत्वा सचिवस्य मूर्छा समागता । नृपेण शीतलोपचारः मजीकृतः । सचिवेनोक्तं-"स्वामिन् मदीया वाग् याति । यत उक्तं
अलसायंते वि सजणेण जे अक्खरा समुल्लविया । ते पत्थरटंकणकिरयव्व नहु अन्नहा हुति ॥१॥ ___ अतः कारणान्मया मृतिः कार्या" । राज्ञा बह्वाग्रहेण मृत्यो रक्षितः भानुमंत्रिणा विवाहनियमः कृतः । कियत्कालानन्तरं स्वनमरे स्वं गृहं गया वजनगृहीतानि प्रियास्थीनि सदाऽचति । तस्या गुणान् स्मारं स्मारंपलपति । स्वदेहेऽपि माया त्यक्ता । एकदाऽचिन्तयनगंगायां गत्वा प्रियास्थीनि प्रवाहयामि' इति विमृश्य मंत्री गंगाटं गतः । तत्र प्रियास्थीनि प्रवाहयन् सरस्वत्या नाम गृहन् विलपति
Educationnemang
For Personal & Private Use Only