SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ०|| , नृपस्योक्तं- 'स्वामिन् श्रीमुखेनास्याभयं देयं । ' राज्ञोक्तं- ' दत्तमभयं किमप्यन्यन्निवेदय । साऽवोचत् - ' त्वत्प्रसादेन सर्वमेवास्ति, किमपि मम न्यूनं न । ' राज्ञा चिन्तितं - “ अहो एतस्या गांभीर्य अहो निर्लोभतागुणः अहो वचनमाधुर्यं नूनमस्याः प्रभावेण मम राज्यं प्रवर्धते । " इति तोपात्सा पट्टराज्ञीपट्टे स्थापिता । पत्युः प्रसादमवाप्य सद्गुणजलेन कश्मलं क्षालयामास । सा सर्वत्र विख्याता जाता । स वसन्तकोऽपि तत्रैव राजसेवां करोति । सदाचाररतो वासरानत्यवाहयत् । सा शीलवती राजी राज्यसुखं भुञ्जाना गृहिधर्मरता नवमग्रैवेयके ऽभयदानप्रसादाद्देवत्वं प्राप्य चैकत्रिंशत्सागरोपमायुर्भुक्त्वा महाविदेहक्षेत्र सिद्धा । बसन्तकोऽपि गुरुयोगात्प्रपन्नाणुव्रतं सम्यक् पालयित्वा दिवं ययौ । इदमभयदानमाहात्म्यं ज्ञात्वाऽभयदानं देयं । भगवान् श्रीपार्श्वनाथो भव्यजीवान् प्रतिबोधयति – भो भविकाः श्रूयतां - साधूनामन्नोपाश्रय भैषज्यवस्त्रपात्रपानीयदानतो भवकोटिसञ्चितं पातक प्रक्षिप्य चक्रवर्तितीर्थकरपदवीं प्राप्नोति । तच्च दानं पात्रे दत्तं नृणां बहुफलदायकं भवेत् । उक्तं च खलोऽपि गवि दुग्धं स्याद्दुग्धमप्युरगे विषम् । पात्रापात्रविचारेण तत्पात्रे दानमुत्तमम् ॥ १ ॥ पात्रं तु साधव एव । सप्तविंशतिगुणसहिताः पञ्चमहाव्रतपालका अष्टप्रवचनमातृणां धारका एवं साधवः । यत उक्तं सिद्धान्ते-उत्तमपत्तं साहू मज्झिमपत्तं च सावया भणिया । अविरयसम्मद्दिट्ठी जहन्नपत्तं मुणेयव्वं ॥ १ ॥ 1 अतः कारणात्साधवः पात्राणि । तेषां दानं देयं । साधर्मिकाणामपि दानं देयं । सिध्धान्तेऽप्युक्तं - “तहारूवं समणं माहणं फासुं णं एसणिजष्णं असणं पाणं खाइमं साइमं वा पडिलाभेमाणे आउयजाओ सत्तकम्मपयडीओ निविडवंधणबद्धाओ सिटिलबंधणबद्धाओ पकरंति जीवा अत्थेगइआ जीवा तेणेव भवग्गहणेण सिज्झंति बुज्झति जाव सव्यदुक्खाणमंतं करेंति अत्थेगइया जीवा Jain Education International For Personal & Private Use Only चरित्र ॥११०॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy