________________
संचरन् सर्वैः पुरजनैर्वीक्ष्यमाणः कौतुकानि सर्वत्र विलोकयन् दिवसात्यये मन्दिरे समानीतः । पल्यंके तूलिकाशीतरक्षोशीर्षादिके|र्निर्मापितबहुप्रीतिः शर्वरीं लीलयाऽतिवाहयति । प्रातः प्राच्यवेषं कारयित्वा राज्ञः समर्पितः । नृपस्तलारक्षकस्य तं वधाय यावत्समपयति तावत् द्वितीयया राज्ञ्या तथैव याचितस्तथैव मजितस्तथैव भोजितस्तथैव लालितः । क्रमेणान्याभी राज्ञीभिः सापल्यभावसंजातस्पर्धयैकैकदिवसं क्रमान्नृपं विज्ञप्य याचित्वा भूरितरद्रव्यव्ययाधिकाधिकैस्तस्य तस्करस्य विविधोत्सबैर्मनस ईप्सितं पूरितं । अथ तस्य नृपस्य पञ्चशतीतमा राज्ञी शीलवती नाम कुलवतं पालयन्ती अल्पस्थितिपरिवारा स्वस्यैव कर्मणो दोषं मन्यमानाऽस्ति । विवाहानन्तरं राज्ञा सा दृष्ट्या दृष्टापि नास्ति । सा साहसमवलंब्य भूपं व्यजिज्ञपत् - " स्वामिन् प्राणवल्लभ प्राणाधार मया कदापि किंचिद्याचितं नास्ति । अद्य किंचिद्भवदाज्ञयाऽहं याचे" । राज्ञा प्रोक्तं- 'याचस्व' । सोवाच- 'चौरोऽयं मम देयः, कदापि न मारणीयः, अभयदानं देयं । नृपस्तदाकर्ण्य तस्या गुणगौरवं ज्ञात्वा तत्सर्वं मेने । शृणु प्रिये - ' मयायं मुक्तस्त्वद्वाक्यात् । ' सापि तं स्वगृहे नीत्वा संक्षेपात्स्नानभोजनं कारयित्वाऽल्पवस्त्राणि परिधाप्याभयं ददौ । स तु राज्यलाभादधिकं तदा मेने । तस्मिन्नहोरात्रे ग शीलवती तं धर्मतनयं कृत्वा विससर्ज । सोऽपि सिंहासनोपविष्टस्य राज्ञः प्रणामार्थमागतः । मुदितः सन्नृपं प्रणमति । राजापि विस्मितस्तं पप्रच्छ - " वद् रे सत्यं, किं कारणं, अद्य किं मुदितः १ एतावद्दिवसान् यावद्विषण्णवदनच्छायो मपीलिप्त इवाभवः । अय तु स्वल्पवेपोऽपि मुदितो दृश्यसे । " सोऽप्याह – “ श्रूयतां नाथ तव कर्णप्रविष्टैः शूलारोपाक्षरैः सर्वं शून्यं ममाभवत् । जलं विषसन्निर्भ, अन्नमपि विषसन्निभं पल्यंकः शल्यसंकाशः, तुरगो रासभाकारः । सर्वमप्येवमभवत् । मरणशंकया दुःखदायकमभूत् । अद्य श्री शीलवतीमार्थनया श्रीमद्राजपादैः सुप्रत्ययैर्यदभयदानं दत्तं तत्मभावादहं सर्वं पूर्ण सुखं पश्यामि । " तदा राज्ञ्या
Jain Education International
For Personal & Private Use Only
*%%%%**
www.jainelibrary.org