________________
164641964
जीवितव्याभयं प्राप्य दीनदीनोऽपि संमदात् । मन्यते स्वं त्रिलोकीशं दृष्टान्तोऽत्र वसन्तकः ॥ २ ॥
अथ वसन्तककथा ।
¦
श्री वसन्तपुरे महाबलवान् तेजस्वी प्रतापी मेघवाहननामा नृपती राज्यं करोति । तस्य प्रियंकरा पट्टराज्ञी अस्ति । अन्या | अपि पञ्चशतमिता राज्ञ्यः सन्ति । स भूपतिस्ताभी राज्ञीभिः सह वैषयिकं सुखं राज्यसुखं चानुभवन् सुखेन कालं निनाय । लोका | अपि मुदिताशयाः सुखेन वसन्ति । दानपुण्यादिकं कुर्वन्ति । एकदा तत्र यामिन्यां कोऽपि चौरः सलोप्कस्तलारक्षकदृष्टः । स तु तैर्बद्धः । आस्थानस्थितस्य नृपतेः पुरः समानीतः । नृपस्तं तस्करं निरीक्ष्य प्रसन्नया वाचा शिथिलं बन्धं विधाप्य विस्मितमानसः प्रोचे – “ वद रे तब को देशः १ का जातिः १ एवंविधे नवे वयसि किमिदं विरुध्धं कर्मारब्धं " ? । तच्छ्रुत्वा तस्करः पदे पदे स्खलद्वाक्य एवं जगाद - " नाथ वन्ध्यपुरे नगरे वसुदत्तः श्रेष्टी वसति । तस्याहं वमन्ताख्योऽङ्गजः । पित्रा लालितः पालितः पाठितः परिणायितश्च । परं दुष्कर्मवशतां द्यूतव्यसनवानहं जातः । पितृभिः स्वर्जनैर्जनैर्निवारितः शिक्ष्यमाणोऽपि द्यूतव्यसनं नाह मुचे । लोका अपि मां निवारयन्ति - - ' तवात्तनकुलीनस्य द्यूतव्यसनं न युक्तं ' । लोका ईर्ष्या कुर्वन्ति । यतःयद्यपि न भवति हानिः परकीयां चरति रासभो द्राक्षाम् । असमञ्जसं च दृष्ट्वा तथापि खलु खिद्यते चेतः ॥ १ ॥
ततः पित्रा राजकुले गत्वा कृष्णाक्षरविधिं कृत्वाऽहं गृहान्निष्कासितः । यतः-
Jain Education International
For Personal & Private Use Only
* २%
www.jainelibrary.org