________________
सत्सौख्यानि रक्षिकावद् मुञ्जन्ति । ये तु पञ्च महाव्रतानि गृहीत्वा वृद्धिं नयन्ति, ते तु रोहिणीवत्सर्वत्र महत्त्वं प्राप्नुवन्ति । हे महाभाग | त्वयापि व्रतपञ्चकं गृहीत्वा परां वृद्धि प्रापयितव्यं " । विजयोऽपि तथैव प्रतिपद्य श्रुताध्ययनतप्तरः सम्यक् संयमं पालयन् गुरुणा साकं विहरति । कालेन तं योग्यं ज्ञात्वा गुरुः स्वपदे स्थापयित्वा संमेतगिरिं समारुह्यानशनं गृहीत्वा मोक्षपदं जगाम ।
अथ विजयसूरिराचार्यः स्वशिष्याणां वाचनाध्यापनादिना समुद्युक्तो भुवि विहरन्नुचैर्महतीं प्रतिष्ठां प्राप । एवं बहुकाले गते शास्त्रश्रमेण विविधोत्तरप्रधानेन भग्नः श्रान्ती मनस्येवं चिन्तयति – “ अमी मुनयो धन्याः यस्माज्जडाः सन्ति । ये परप्रश्ननानार्थार्ति| रहिताः सुखेनासते, अतः कारणान्मूर्खत्वं रुचिरं । यतः -
मूर्खत्वं हि सखे ममापि रुचितं यस्मिन् यदष्टौ गुणा निश्चिन्तो बहुभोजनोऽत्रपमना रात्रौ दिवा शायकः । कार्याकार्यविचारणान्धवधिरो मानापमाने समः । प्रायेणामयवर्जितो दृढवपुर्मूर्खः सुखं जीवति ॥१॥
अहं चेत्पठितोऽस्मि तदाहं शास्त्रार्थोत्तरप्रदानेन दुःखवानस्मि । तदा तेनाचार्येण ज्ञानावरणं कर्म बद्धं । स कालेनाप्रतिधरोऽवनि । तत्रायुः प्रातिपाल्य ततश्च्युत्वा पद्मपुरे धनश्रेष्टिमुतोऽभवत् । जयदेव इत्यभिधानं तस्याभवत् । शालायां पठनाय मुक्तः । पंडितः पाठयति परमक्षरमात्रमपि किञ्चिन्नायाति । किं करोति १ । जनकः खेदं
कुमार धत्तं चिन्तयति च
For Personal & Private Use Only
13
www.ainelibrary.org