SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ यत्नेन स्थापिताः, प्रतिदिनं संभालयति । चतुर्थ्या रोहिण्या स्वबन्धूनां समर्प्य प्रतिवर्ष वापयित्वा वृद्धिं नीताः बहवः संजाताः। अथ पञ्चमे वर्षे चिन्तयति श्रेष्ठी-" पञ्च वर्षाणि जातानि । मया वधूनां ब्रीहयो दत्ताः। विलोकयामि, किं कृतं ?" इति वि-18 मृश्य स्वजनान् संमिल्य भक्त्या भोजयित्वा स्वजनसमक्षं ब्रीहयो वधूनां पार्श्व याचिताः । प्रथममुन्जितां वधू पोचे-"वत्से तव स्मरति ? इतोऽतीते पञ्चमे वर्षे तव मया पश्च व्रीहयो दत्ता अभूवन्" । वध्वा प्रोक्तं-'सत्यं, दत्ता अभृवन् । श्वसुरेणोक्तं'ते मम दीयन्तां'। उज्जिता ततः स्थानाद् गृहमध्ये गत्वाऽन्यान् पञ्च व्रीहीन समानीय ददौ । तदनु श्वसुरेणोक्ता—'वत्से त एवैते न वा ?' तया कुलीनत्वाद्यथास्थितं सत्यमुक्तं--'आम तात ते न, अन्ये एते'। 'तत्कथं वत्से?'' ते तु तदैव मया त्यक्ताः, एते अन्ये एव । तदा श्वशुरेण क्रोधवशादुक्तं "दानानुसारिणी कीर्तिलक्ष्मीः पुण्यानुसारिणी । प्रज्ञानुसारिणी विद्या बुद्धिः कर्मानुसारिणी ॥१॥ स इत्युक्त्वा सोजिता वालये भस्मच्छारपुंजादौ नियोजिता । सोजितापि तत्कार्य कुर्वन्ती दुःखिनी जाता । तदनु द्वितीया वधः श्रेष्टिना समुल्लापिता-'वत्से त्वमपि त्रीहीन् देहि । सापि गृहमध्यादन्यान् शालिकणानानीय ददौ । श्रेष्ठिनोक्तं-"हे लपुत्र अमी बीहयस्ते एवान्ये वा ? सत्यं वद । यतः- .. - - एकनासत्यजं पापं पापं निःशेषमन्यतः। द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥१॥". . ततस्तया सत्यमुक्तं-'आम तातान्ये एते बीहयः । 'तत्कथं ' ? इति पृष्टे माऽब्रवीत्-“ यदा पूज्यर्मम बीहयो दत्तास्तदा । 43RSAGAR in Education Internations For Personal & Private Use Only www.jainelibrary.org.
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy