SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ धर्मो मोहमहारात्रिव्याकुलानां दिनोदयः । शुष्यतः सौख्यवृक्षस्य धर्म एव घनाघनः ॥ २ ॥ भव्यैराराधितः सम्यग्दाता यः सुखसंपदाम् । उच्चाटनं च विपदां दुर्गतौ पतदंगिनाम् || ३ || अबन्धूनामसौ बन्धुरसखीनां पुनः सखा । अनाथानामसौ नाथो धर्मो विश्वैकवत्सलः ॥४॥ सम्यग्धर्मस्तु सर्वज्ञादिष्टो जीवदयामयः । गृहस्थयतिभेदेन यथाशक्त्या तमाश्रय ॥ ५ ॥ विजय इत्यादिदेशनामंत्रैर्ध्वस्तमोहमहाविषः सन् सद्धर्मचेतनां प्राप्य व्रतमग्रहीत् । मुनीश्वरस्तस्य दीक्षां दत्वा धर्मशिक्षामेवं दत्तवान्- “ अहो विजयराजर्षे त्वमेकमना हितं शृणु । भो मुने जिनेन रागद्वेषादयो ये शत्रवो हठेन निगृहीतास्तान् ये पुष्णन्ति तेषां जिनः कथं प्रसीदति । अतः कारणात एव रागद्वेषादयः शत्रवो विजेतव्याः । पुनरपि शृणु शास्त्रोक्तं अजीर्ण तपसः क्रोधो ज्ञानाजीर्णमहंकृतिः । परतप्तिः क्रियाजीर्णं जित्वा त्रीन् निर्वृतो भव ॥ १ ॥ तथा च- क्षान्त्या क्रोधो मृदुत्वेन मानो मायार्जवेन च । लोभश्चानीहया जेया कषाया इति संवरः ॥ २ ॥ अज्ञानाज्ञायते दुःखं सज्ज्ञानाच्च सुखं पुनः । अभ्यस्यं यत्तदा तेन स्वात्मा ज्ञानमयो भवेत् ॥ ३ ॥ धीरः सचेतनो मौनी यो मार्गे यात्य संगतः । बलिष्टैरपि मोहाद्यैः स शिवं यात्यगंजितः ॥ ४॥ For Personal & Private Use Only Jain Education International :: k www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy