SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 1370 ०४ ॥ एवं कालो याति । अन्येद्युर्नृपमास्थानस्थितं वेत्री व्यजिज्ञपत्— ' उभौ नरौ द्वारस्थौ भवद्दर्शनमभिलषतः । तदा राज्ञोक्तं'समागच्छतां' । नृपादेशात्तौ तत्रागतौ । नृपं नत्वा नृपाग्रे लेखं मुमुचतुः । राजा तं समुद्वेष्ट्य स्वयं वाचयामान - " स्वस्ति श्री मगधेश्वरं श्रीविजयवन्तं श्रीजयन्तनामानं सकलमहानृपतिशिरोमणिवरं गंगोपान्तभुवः स्वामी कुरुदेवः पञ्चांगं नत्वा विज्ञपयतियुष्मत्पांदांबुजद्वन्द्व स्मरणकरणानुभावान्नः सातमस्ति । किं तु सीमालदेशपतिः सेवालनृपो मदीयदेशे विप्लवं करोति । अतः परं त्वमेव शरणं प्रमाणं " । भूपाल इति वाचयित्वा स्फुरत्कोपारुणेक्षणो भटसामन्तानुवाच - " अरे भटाः पश्यत पश्यत । सुप्तस्य सिंहस्य शिरः कंड्रयनं कर्तुं शशकः समुद्यतोऽस्ति । सेवालो मूढः किं कथं कर्तुमुपस्थितोऽस्ति ? । तस्माद्धो भटाः शीघ्रं शस्त्रसंनद्धा भवन्तु " । तदा कुमारभ्यामुभाभ्यां नृपो विज्ञप्तः - 'कस्योपरि समारंभः १ ' । नृपेणोक्तं- 'सेवाली नृप उपप्लवं करोति, तस्योपरि समारंभः । पुत्राभ्यामुक्तं " आम तात शृगालोपरि सिंहस्य कः पराक्रमः ? । यतः यद्यपि रटति सरोषं मृगपतिपुरतोऽपि मत्तगोमायुः । तदपि न कुप्यति सिंहोऽसदृशपुरुषेषु कः कोपः ॥ १॥” नृपेणोक्तं—“ स सेवलः सेवालवद् दुर्जनोऽस्ति दुःसाध्यश्चास्ति । कथं ? • यद्यपि मृगमदचन्दनकुंकुम कर्पूरवेष्टितो लशुनः । तदपि न मुञ्चति गन्धं प्रकृतिगुणा जातिदोषेण ॥१॥” पुत्राभ्यां विज्ञप्तं - " आम तात समादिश्यतां । तदरिं सदर्प वयं हन्मः । सेवके सति प्रभोः कः प्रयासः " । तन्निशम्यामात्येनोक्तं- ' राजेन्द्र राजपुत्राभ्यां साधूक्तं । एवं जल्पितुं चान्यः को वेत्ति ? ' । ततो मुदितेन राज्ञा प्रत्यर्थिनिग्रहे ज्येष्ठसुतः | Jain Education International ܕ For Personal & Private Use Only ܕ X X X وه चरित्र 112-811 w.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy