SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ अतो धर्मः सदा सेव्यो हेतुरूपः फलार्थिभिः । दानशीलतपोभावभेदात्त्वेष चतुर्विधः ॥ १३ ॥ तत्र तावत्रिषा तज्ज्ञैर्दानधर्मः प्रकीर्तितः । ज्ञानदानाभयदानधर्मोपष्टंभदानतः ॥ १४ ॥ सम्यग्ज्ञानेन वेत्त्यात्मा पुण्यपापे ततस्तयोः । प्रवृत्तिं च निवृत्तिं च कृत्वा मोक्षे सुखं व्रजेत् ॥ १५ ॥ विनाशः शेषदानानां कुतोऽपि क्वापि दृश्यते । ज्ञानदाने पुनर्वृद्धिः सिद्धिस्तस्य परस्य च ॥ १६ ॥ - याति रागगणो ज्ञानादर्कात्तम इव ध्रुवम् । तेनान्यो नोपकारोऽस्ति ज्ञानदानसमो भुवि ॥१७॥ किं चाथ बहुधा ज्ञानदानात्त्रैलोक्यपूजितः । सर्वज्ञो भवतीत्यत्र धनमित्रनिदर्शनम् ॥ १८ ॥ - अत्र भगवता त्रिधा दानं प्ररूपितं ज्ञानदानं १ अभयदानं २ धर्मोपष्टंभदानं ३ । तत्र भगवान् ज्ञानदानमाहात्म्योपरि धनमित्रनिदर्शनं प्रकाशयति । तथाहि अथ धनमित्रकथा | अथ तत्र मगघाभिघे देशे राजपुरं पुरं वर्तते । तत्र जयन्तो नाम पार्थिवो जयति । तस्य राज्ञः कमलावती राज्ञी राजते । तयोश्चन्द्रसेन विजयनामानावमानगुणशालिन। सुतौ स्तः । किं तु प्राकर्मदोषेण परस्परकृतामण तेजसोऽसहिष्णू तौ दिनान्निर्गमयतः । १ अतो न क्वापि दृश्यते इति पाठांतरं. Jain Education International For Personal & Private Use Only ++++ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy