________________
श्र०
०३॥
*40*
जन्ममृत्युजरारोगशोकदुःखजलैर्भृते । इन्द्रियेच्छामहावातोद्धतचिन्तोर्मिसंकुले ॥३॥ अस्मिन्नपारे संसारे पारावारे शरीरिणाम् । महारत्नमिवानर्घ्यं मानुष्यमतिदुर्लभम् ॥४॥ जंबूद्वीपो भवेदाद्येो द्वितीयो धातकी स्मृतः । पुष्करवर द्वीपार्धं सार्धं द्वीपद्वयं भवेत् ॥ ५ ॥ महाविदेहान् पञ्चैव पञ्चैव भरतानि च । पञ्चैरावतकानीह एताः स्युः कर्मभूमयः ॥ ६ ॥ तत्रापि विजयानां स्याच्छतं षष्टचाधिकं तथा । भरतैरावतक्षेत्रदशकं सर्वसंख्यया ॥७॥ इत्येवं कर्मक्षेत्राणां स्यात्सप्तत्यधिकं शतम् । प्रतिक्षेत्रं च तत्राप्यनार्याणां खंडपञ्चकम् ॥८॥ षष्टं खंडं भवत्यार्यं प्रायो म्लेच्छाद्यधिष्ठितम् । तत्राप्यनार्यका देशा धर्मसामग्रथभावतः ||९| तत्रापि सुकुलोत्पत्तिर्दीर्घमायुररोगता । धर्मेच्छा सुगुरोर्योगः सामग्री [प्रयः ] पञ्च दुर्लभा ॥१०॥ प्रमादपञ्चकस्तंभमोहशोकादिकारणैः । लब्ध्वाऽप्यधन्या मानुष्यं न लभन्ते हितं श्रुतम् ॥ ११ ॥ - हितं श्रुत्वापि कस्यापि मतिर्धमें प्रजायते । न हि शुक्तिषु सर्वासु मेघांभो मौक्तिकं भवेत् ॥ १२ ॥
-
International
१ जबूद्वीपमिति द्वीपं धातकीखंडशीपकम् । पुष्करवरद्वीपार्धसाधे द्वीपद्वयं भवेत् ॥ इति प्रत्यन्तरपाठः ।
For Personal & Private Use Only
चरित्र
॥१०३॥
w.jalnelibrary.org