SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्र० १०२॥ सारंगी सिंहशावं स्पृशति सुतविया केकिकान्ता भुजंगं माजरी हंसवालं प्रणयपरवशान्नन्दिनी व्याघ्रपांतम् । वैराण्या जन्मजातान्यपि गलितमुदा जन्तवोऽन्ये त्यजन्ति श्रित्वा साम्यैकभावं प्रशमितकलुषं योगिनं क्षीणमोहम् ॥ १ ॥ त्रैलोक्यनाथस्य श्री पार्श्वनाथस्य चेदृशं वैभवमुद्यानपालकमुखाच्छुत्वाऽश्वसेननरेश्वरी रोमाञ्चितवपुजे । तस्मै वनपालका यांगलग्नान्याभरणानि पारितोषिकं ददौ । ततस्तोपितो वामादेव्यै प्रभावत्यै च तद्वैभवं सर्वे निवेद्य हस्त्यश्वरथसंवाहं कारयित्वा भूपतिर्वामादेव्यादिसहितो महर्ध्या श्रीपार्श्वनाथं जिनेन्द्रं प्रभुं वन्दितुं ययौ । नृपतिः पञ्चाभिगमपूर्वकं त्रिः प्रदक्षिणीकृत्य प्रभु भक्त्या नत्वा एव मस्तवीत् । तद्यथा Jain Education International एकः पुरुषसिंहस्त्वं मोहमत्तेभनिग्रहात् । इतीव विदधे नाथ सिंहासनमिदं सुरः ॥ १ ॥ रागद्वेषमहाशत्रुजयोछ्रयशशी इव । रेजाते चामरे चोभे पक्षयोरुभयोस्तव ॥ २ ॥ ज्ञानदर्शनचारित्रराज्यं त्वय्येकतां गतम् । अतस्तेषामिवैषा ते मूर्ध्नि च्छत्रत्रयी स्थिता ॥ ३ ॥ चतुर्धा देशतो धर्मं चतुर्मुखे तव ध्वनिः । दिवश्चतुर्दिशं जातः कपायानिव धर्षितुम् || ४ || For Personal & Private Use Only चरित्र ॥१०२॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy