________________
विदधिरे । तस्योपरि मणिमयं प्रतिच्छन्दकं व्यधुः । तन्मध्ये पूर्वदिग्भागे रत्नमयं सिंहासनं व्यधुः । छत्रत्रयं तत्र दधे । यक्षाभ्यां च चामरद्वयं विदधे । तत्र द्वारे पुरः स्वर्णावुजस्थितं धर्मचक्रं चक्रुः । तत्रान्यदपि यत्कृत्यं तत्सर्वं व्यन्तरा व्यधुः । तथाहिबारसजोयणमुसहे, ओसरणं आसि नेमिजिणं जाव। दो दो गाउ ऊणं, पासे पणवीस चडवीसे ॥१॥
ततस्तु सुरसंचारितस्त्रर्णपद्मन्यस्तपदः क्रमात्समवसरणं सुरकोटिवृतो ययौ । तत्र प्रविश्याशोकतरोः प्रदक्षिणां प्रचक्रे । तत्र “ नमो तित्थस्स " इति पदेन तीर्थं नत्वा प्राङ्मुखः सिंहासनमशिश्रियत् । तत्र द्राक् प्रभोः प्रतिरूपाणि रूपाणि दिवन्यासु तिसृध्वपि तादृशान्यानि व्यन्तराचक्रुः । तदा वासवः प्रभोः शरीरस्य महोऽसह्यं ज्ञात्वाङ्गमध्यात्तेज ईपदीषद् गृहीत्वा भामंडलं चकार । तद्भामंडलं प्रभोः शिरसः पृष्ठे रेजे । प्रभो पुरो रत्नमयो ध्वजो रराज । तदा जलदवद्गंभीरध्वनिर्दिवि दुन्दुभिर्गर्जारवं करोति । तत्र द्वादश पर्पदो यथास्थानमुपविशन्ति । तथाहि —
साधुवैमानिकी साध्व्यः स्युराग्नेय्यां विभोः क्रमात् । नैर्ऋत्यां भवनपतिज्योतिर्व्यन्तरयोषितः ॥ १ ॥ वायव्या दिशि भवनज्योतिर्व्यन्तरनाकिनः । वैमानिका नरा नार्यः स्युरैशान्यामनुक्रमात् ॥ २ ॥
यो-पि पर्षदचतुष्कद्वारः प्रविश्य प्राच्यादिषु दिक्षु नतिं कृत्वा यथास्थानमुपविशन्ति । तदादौ साधुसाध्वीनामभावात्तत्र नकोऽप्युपविशति । तिर्यङ्नरामराः कोटिशस्त्र मान्ति स्म । न कस्याप्यावाधा भवेत् । वप्रस्य द्वितीयस्यान्तस्त्यक्तविग्रहास्तियैवस्तिष्ठन्ति । उक्तं च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org