________________
।
GIRCRACK
पूत्कारशब्दं चक्रुः । तथापि प्रभुमक्षोभ्यं विदित्वा स्फुरध्ध्यानप्रदीपानुभावाद् दूरं ययुः । ततस्तेन चित्रका विपसा वृश्चिकाच विकतात्मना विकृताः। तैरपि भगवान चुक्षुमे । तिलतुषमात्रमपि न क्षुब्धः । ततो बहीभिवाद्यं वादयन्तीभिर्गानं कुर्वन्तीभिः किंनर्गभिरनेकहावभावकामचेष्टाभिर्भगवान् न चालितः । ततोऽपि प्रभुन क्षुब्धः। बहीभिर्वात्याभिः कथमपि मन्दरो यथा न चलति नद्वत्प्रभुन चलितः । ततस्तेन पापात्मना प्रभोः शिरसि महती रजोवृष्टिविदधे । तया रजोवृष्टयापि भगवान् मनागपि न चलितः । ततो महतादरेण तेन दुष्टात्मना प्रेता वेताला विकीर्णकेशविकृताकृतिमय मुंडप्रालंबभृद्विकृताकारा विकृताः । तैरपि भगवान् न दुःख्यभवत् । तैरपि न क्षुब्धः प्रभुः । ततो वाढामो जातः । तदनुस पापो भगवन्तं नीर निमज्जयितुमंवरे धनं विचक्र । कालजिह्वासदृशी विद्युदद्युतत् । तर्जितैगर्जितैः सर्वदिशोऽपूरयत् । जगदिदमाकुलमभृत् । तदा मुशलाकारधाराभिवतो व पर्नु प्रवृत्तः । रोदस्येकजला जज्ञे । जन्तवो जलैः प्लाविताः । तदा च प्रभोर्जानुकटीकंठदनं नीरमभवत् । क्रमानीरं नासावमाययो । तथापि भगवानिजध्यानानाचलत् । भवांभोधिपतद्विश्वाधारस्तंभ इव स्थितः । तदा धरणोरगेन्द्रस्यासनकंपोऽभवत् । ततो भगवन्तं सोपसर्ग ज्ञात्वा स्वदेवीभिः सहाययो । तत्र प्रभुं नत्वा प्रभोः पादयोरधोंऽभोज न्यधात् । प्रभाः शिरसि धरणश्त्रं सप्तभिः फणैरूज़ विचके । तदा च भगवान् ध्यानसमाधिमुखलीलात्मांबुजे स्थितो राजहंस इव शुशुभे । विभोरने वणव्यो भक्तिनिर्भरा वेणुवीणामृदंगादिवाद्यपूर्व संगीतं नाटयं च चक्रुः । धरणस्तु भक्तिमान् कमठश्चीपसगकृत, तयोस्तुल्या मनोवृत्तिः प्रभोरभृत् । एवं सत्यप्यमर्पण वर्षन्तं मेघमालिनं निरीक्ष्य धरणः कोपात्साक्षेपमिदमब्रवीत-"भो दुर्मते स्वस्यानाय कितदारेभे । अहं भगवतो भृत्यः । अतः परं न सहिष्ये । काष्ठान्तर्दधमानोऽहं भगवतः प्रसादादिन्द्रत्वं प्रासः। त्वमपि पापाभिष
---
-
-
-
in Education International
For Personal & Private Use Only
www.jainelibrary.org