SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ $2 ६ ॥ पुननिर्बन्धेन शिशुस्तं वृद्धं प्रति प्रष्टवान् । वृद्धेनोक्तं – “ अस्य तरोः स्कन्धदेशे या वल्ल्यभित आवेष्ट्य तिष्ठति, तदीयरसात् भारंडपक्षिविदससिक्तात् सद्यो नव्यनेत्रोद्भवो जायते" । इत्थं संलपनात्तेषां 'प्रमीला समागता । कुमारोऽपि तत्र वटा स्थस्तत्सर्वं श्रुत्वाऽचिन्तयत् - " किं सत्यं वाऽसत्यं वा ? अत्र को भ्रमः ? सतामापदुच्छेदे धर्म एव जागतिं" । इति निश्चित्य करम्पशतां छुरिकया च्छित्वा तत्र पतितां भारंडपक्षिणो 'विपं लात्वा कराभ्यां संपिष्याक्षिकूपावपूरयत् । मुहूर्तेनैकेन सद्यो नवोद्भिन्नदिव्यनेत्रे जाते । सर्व निरूपयामास । संतोषं प्राप्तः । यतः - भीमं वनं भवति तस्य पुरं प्रधानं सर्वो जनः स्वजनतामुपयाति तस्य । कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ १ ॥ वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुतं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥ २ ॥ सर्वोऽयं धर्मानुभावः । अथ तत्र गत्वा तां कन्यां पहुं करोमि । एभिः सार्धं याम्यहं " । इति विमृश्य तं वटमारुह्य पक्षिपक्षांतर्निलीय तस्थौ । निशात्यये पक्ष्युड्डीय चंपोद्यानवनं ययौ । ततः कुमारो निर्गत्य सरसि स्नात्वा कृतस्वादुफलाहारः पुरीं प्रति च|लितः । पटहोद्घोषणां शृण्वन् मतोलीद्वारमागतः । तत्र श्लोकमेकं लिखितमत्रलोक्य वाचयति । यथा १ निद्रा. २ विष्टां. Jain Education International For Personal & Private Use Only चरि० ॥ ६ ॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy