SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ****** तदा पक्षिणोऽपि शब्दायमाना दुःखेन नीडवेश्मसु निलीना इव । दिङ्मुखानि तमसा श्यामतामगुः । अत्रान्तरे तत्र वटे भारंडपक्षिण एकत्र संमीलिताः स्वैरं संलापमेवं चक्रिरे – “येन यद्दृष्टं श्रुतं वा क्वापि कौतुकं तत्कथ्यताम् ” । तदैकेन कथितं - " अहं कथयामि, निशम्यताम् । इतः प्राच्यां दिशि चंपा नाम महापुरी वर्तते । तत्र भुवनविख्यातो जितशत्रुर्महीपती राज्यं करोति । तस्य पुष्पावती नाम्ना पुत्री जीवितव्यादपि वल्लभा सुन्दरी सुरूपा चतुःषष्टिकलाप्रवीणा चास्ति । परं तु नेत्राभावतः सर्वं वृथैव । एकदा भूपतिस्तां तथाविधां दष्ट्वा चिन्तातुरोऽभवत् - " अहो विधिविलसितं किं करोति ? | अथवा दैवोपालंभैरलम् । कोऽप्युपायो विधीयते " इति निश्चित्य नृपो घोषणामिति कारयामास - " अहो जना जितशत्रुराज्ञः पुत्रिकाया लोचने सुखं यः करिष्यति तस्मै नृपः कन्यां निजराज्यस्याधं च प्रदास्यति " । तच्छ्रुत्वा देशान्तराद्विविधा नेत्रचिकित्सकाः समेता विविधोपायं कुर्वन्ति । परं किञ्चिदपि नेत्रे सुखं न जातम् । नृपश्चिन्तया पीडितः । यतः बिन्दुनाप्यधिका चिन्ता चिता चिन्तासमा न हि । चिता दहति निर्जीवं चिन्ता जीवन्तमप्यहो ॥१॥ तथापि स राजा नित्यं पुरे पटहोद्घोषणां कारयति । प्रातः तेन दुःखेन राजा राज्ञी पुत्री य काष्ठभक्षणं करिष्यति । पश्चान्न जाने किं भविष्यति । प्रातरात्मभिस्तत्र गमिष्यते” । तच्छ्रुत्वैको लघुपुत्रको विस्मयात् पप्रच्छ - 'तात नेत्रसंभवे कञ्चिदुपायोऽस्ति ? तदा वृद्धोऽवक्–“वत्स जात्यंधायाः कथं नेत्रे भवतः १ तथापि मणिमंत्रमहौषध्योऽचिन्त्यप्रभावाः सन्ति” । तेनोक्तं- ' तर्हि कथ्यताम्' । वृद्ध ऊचे - " रजन्यां नैव कथ्यते । ऊक्तं च दिवा निरीक्ष्य वक्तव्यं रात्रौ नैव च नैव च । संचरन्ति महाधूर्ताः स्थाने स्थाने विशेषतः ॥ १ ॥ ," Jain Education International For Personal & Private Use Only brary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy