________________
| राख्यत्-'अयं कर्मरोगः । तन्निवारणार्थ धर्मापधं कुरु'। ततोऽसौ शुद्धभावेन ससम्यक्त्वं पञ्चाणुव्रतरूपं गृहिधर्म प्रपन्नवान् । तदनन्तरमचित्ताहारपासुकजलपानपञ्चपरमेष्ठिनमस्कारगणनपरोऽभवत् । शुभभावना भावयति । अन्येयुः स चैत्यं गत्वा जिनं नत्वा मुनि वन्दित्वा समुपविष्टः । तदाऽन्यः पुष्कलिश्राध्धो मुनिसमीपे पूर्व समुपविष्टोऽस्ति । तेन स मुनिः पृष्टः-"भगवान् एवं| विधविविधव्याधिविशीर्णदेहस्य नरस्य जिनौकसि समागत्य जिनवन्दनं युक्तं ? किमु न वा ?" । मुनिरूचे-“भो महाभागाव-| ग्रहाशातनोज्झनादेव देववन्दने को दोपः । साधवोऽपि मलक्लिन्नकलेवरा भवन्ति । त एव तादृपाश्चैत्ये देववन्दनं कुर्वन्तः सन्ति"। पुनरपि पुष्कलियाध्धः प्रोचे-'एप क्व गतौ गन्ता ? । मुनि नानुभावावे-'एष पूर्वबध्धायुः राजपुरे तिर्यग्गतौ कुकुटो भावी' । तदा स कुष्ठी स्वस्य भाविदुःखं श्रुत्वाऽरोदीत्तरां । ततः स मुनिना संबोधित:-" हे कोविद मा खिद्यस्व । यथाऽम्बुधेः प्रचंडपवनोध्धृततरंगस्य प्रसरः केनापि रोधुं न शक्यते, तथा प्राकृतकर्मविपाकप्रसरः केनापि रोधुं न शक्यते । तथा चाहुः पंडिताः
सुस्वस्य दुःखस्य न कोऽपि दाता परो ददातीह कुबुद्धिरेषा ।
पुराकृतं कर्म तदेव भुज्यते शरीर हे निष्ठुर यत्त्वया कृतम् ॥१॥
तथा च* आरोहतु गिरिशिखरं समुद्रमुल्लंघ्य यातु पातालम् । विधिलिखिताक्षरमालं फलति सर्व न सन्देहः ॥२
en Education international
For Personal & Private Use Only