________________
1870
१९ ॥
みやぷ幸子やおやさゆみ
मनोऽभीष्टं फलं जनानां दत्ते । तत्र कलिनाम्ना पर्वतः कुंडनाम्ना सरः तदासनं कलिकुंड इति ख्यातं तीर्थ विश्वपावनं संजातं । | सोऽपि करी मृत्वा तत्रैकभक्तिमान् महर्द्धिर्व्यन्तरो जातः । तीर्थसेवको जातः
प्रभुः पार्श्वजिनेन्द्रो विहारं कुर्वन् क्रमेण शिवपुर्यां ययौ । तत्र कौशंब्याख्ये वने कायोत्सर्गेण तस्थिवान् । तदा धरणेन्द्रः पूर्वभवोपकारं स्मृत्वा तत्र महर्ध्या समागत्य स्वामिनं नत्वा भक्त्या स्तुत्वा स्वामिनः पुरो नाट्यविधिं व्यधात् । धरणेन्द्रेण मनसा |चिन्तितं - ' मयि सेवके सत्यपि प्रभोरर्ककिरणस्पशी माभूत् ' इति ध्यात्वा प्रभोः शिरसि सहस्रफणरूपं छत्रं दधौ । ततोऽन्यत्र गते नाथे धरणेन्द्रोऽपि स्वस्थानमगात् । तदारभ्य जनैरहिच्छत्रेतिविख्याता पुरी वासिता । अहिच्छत्रं तीर्थं प्रसिद्धं जातं । अथ स्वामी राजपुरनगरसमीपे वने गत्वा प्रतिमया स्थितः । तत्रेश्वराख्यो नृपतिरस्ति । स नृपस्तदा राजपाट्यां विनिर्ययौ । तदा | सेवकैरुक्तं — 'स्वामिन्नेनं व्रतस्थं स्वामिनमश्वसेननृपांगजं पश्य' । इत्युक्ते नृपो हृष्टः पार्श्वजिनान्तिकं ययौ । नृपः प्रभुं दृष्ट्वेत्यचिन्तयत् - 'मयाऽयं वेषो दृष्टोऽस्ति' इति चिन्तयन्मूर्च्छितः । लब्धसंज्ञश्च जातजातिस्मृतिर्जगौ - ' अहो महच्चित्रं मम निजप्राच्यभवो - स्मारि ' । मन्त्र्यूचे -- ' स कीदृक् ? उपदिश्यतां ' । नृपः स्माह – “ भो निशम्यताम् । वसन्तपुरनगरे दत्तनामा द्विजः पुरासीत् । स हि लग्ननिमित्तज्ञानकथनाज्जने प्रसिद्धो जातः । अथ कर्मवशात्तस्य द्विजस्य कुष्ठरोगः समुप्तन्नः औषधशतैरपि न शान्तः । कुटुंबेनापि कर्मवशाच्यक्तः दुःखी जातः । गंगायामेत्य वेगतस्तत्र तज्जले निपतन् केनापि विद्याधरर्पिणाकाशगामिना दृष्ट उदितश्च'महाभाग कथं जले झम्पां ददासि ? ' । सोऽवक्- 'भोः साधो रोगवशोत्पन्नदुःखान्प्रिये ' । मुनिरुवाच – “भो महानुभाव महारसायनं जिनधर्म सर्वरोगहरं त्वं कुरु । शश्वत्सेवनेन विषतरोः कर्ममूलं छिन्धि " । तेनोक्तं- 'किं तद्रसायनं ? ' तेनेति पृष्टो मुनि
For Personal & Private Use Only
Jain Education International
चरित्र
॥ ९९ ॥
www.jainvelibrary.org