SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ पाश्व० ९८ ॥ भरणान्यमुञ्चत् । ज्ञानदर्शनचारित्ररूप रत्नान्यग्रहीत् । तां शक्रः पार्श्वप्रभो देवचन् । भगवान् श्रीपार्थः पापस्य कृष्णकादश्यां विशाखानक्षत्रे कृताष्टमतपाः पञ्चमुष्टिभिः केशमुन्मूल्य ' नमो सिद्धाणं ' इति पदं स्मरन् चारित्रमग्रहीत् । तदा भगवतो द्राग् मनःपर्यवज्ञानं समुत्पन्नं । विभोः पञ्चमुष्टशुध्धृतान् केशान् शक्रः स्ववाससा गृहीत्वा क्षीरसागरे चिक्षेप । तदा च त्रिशतराजपुत्रैः संवेगाच्चारित्रमंगीकृतं । अथ सुरसुरनरेश्वराः श्रीपार्श्व जिनेन्द्रं प्रणम्य स्वस्थानं जग्मुः । तदा तत्रैव भगवान लंबमानभुजद्वयः कायोत्सर्गेण स्थितवान् । प्रभाते बिहारं चकार । अष्टमस्य पारण के कोपका सन्निवेशे धन्यस्य गृहिणी गृहे पाविशत् । तदा धन्यः स्वं धन्यं मन्यमानः कल्पद्रुममिव तं जिनं वीक्ष्य सहसोत्पन्नविवेकत्वात्तं नत्वा शुध्धधीः परमान्नेन नाथस्य पारणकं कारयामास | ‘अहो दानमहो दानं ' इत्युद्घोषणापूर्वकं दिवि देवैर्देवदुन्दुभिस्ताडितः । गन्धांबुवृष्टिभिः भूः निक्ता । स्वर्ण| वृष्टिः कृता । नानाप्रकारपञ्चवर्णकुसुमैर्भूः प्रकीर्णा । दिव्यं नाटकं जातं । नाथस्य पारण के धन्यः पुण्येन पूर्णः संजातः । गृहं ध पूर्ण जातं । जनो मुदा पूर्णो जातः । गगनं देवदुन्दुभिनादैः पूरितं । तदा धन्यो राज्ञा लोकश्च संमानितः । तत्र प्रभोः पारणकस्थाने मुदा पादपीठं व्यधात् । स्वामी ततो ग्रामाकरपुरादिषु विचचार । स्वामी धरित्रीव सर्वसहः शारदाभ्रमिवामल आकाशवनिरालंबो वायुत्रदप्रतिबद्धो वह्निवत्तेजसा दीपः कांस्यपात्र वन्मुक्ततोयः समुद्रवद्गंभीरो मेरुरिवाप्रकंपो भारंडवदप्रमादः पद्मपत्रनिर्लेपः पञ्चसमितिभिः समितस्त्रिभिर्गुप्तिभिर्गुप्तो द्वाविंशतिपरीषहान् जयन् चरणन्यासेन महीं पावयन पञ्चाचारं प्रतिपालयन् अटव्यां कलिगिरेरधः कुंडाख्यसरस्तीरे विभुः प्रतिमया स्थितः । एकोनविंशतिदोषरहितं कायोत्सर्गं व्यधात् । तथाहिघोडग लय खंभाई, मालुद्धि नियल सबरि खलिण वह। लंबुत्तर थण संजई, भमुहंगुलि वायस कविदे ॥ Jain Education International For Personal & Private Use Only: चरित्र ॥ ९८ ॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy