________________
अतः कारणाद्दयैव धना । यथा नाथं विना सैन्यं नो राजते, यथा जीवं विना वपुर्नो भ्राजते, यथा निशापतिं विना निशा न शोभते, यथा नदी हंसमिथुनैर्विना न विभासते, तथा दयां विना धर्मोऽपि न चकासते । अतः कारणाद्भोस्तपस्विन् दयां विना किं सुधा क्लेशकारकं कष्टं करोषि ? जीवघातात् कथं पुण्यं भवति ?” । इति श्रुत्वा कमठः प्रोचे - "भोः क्षत्रियराजकुमार राजपुत्रा हस्त्यश्वक्रीडामेव विजानन्ति, धर्म तु मुनिपुंगवा एव विदन्ति" । ततो जगतां पतिः पार्श्वनाथस्तत्प्रत्ययार्थं स्वैर्नरैर्वह्निकुंडात्काष्ठमाकर्ण्य | यत्नेन स्फोटयामास । तस्मात्काष्टादाकुलोऽहिः सहसा निरगात् । प्रभुस्तस्य पन्नगस्य नमस्कारमदात् । विभोर्वाक्यपीयू पैनमस्कारामृतं पीत्वा सोऽहिः समाधिना मृत्वा नागाधिपो धरणेन्द्रोऽभूत् । स धरणेन्द्रो नागसुरेषु महद्ध रेजे । अहोऽज्ञानं कमठ रेsज्ञानं' जनैरेवं स्तूयमानो विभुः स्वभवनं ययौ । कमठस्तापसो लघुतां प्राप्तो जनैहलितो गर्हितो भगवत उपरि द्वेषं वहन्नन्यत्र गतः । ततः कमठस्तापसी हठात्कष्टतरं बालतपस्तेपे । अज्ञानकष्टं कृत्वा पार्श्वप्रभोरुपरि द्वेषं वहन् मृत्वा भवनवासिषु मेघकुमारेषु मेघ| मालीति नामतोऽसुरः समजायत । यतः-
बालवे पबिद्धा उक्कडरोसा तवेण गारविआ । वेरेण य पडिबद्धा मरिउं असुरेसु जायंते ॥ १ ॥
1
मेघमाल्यसुराधमो दक्षिणश्रेण्यां सार्धपल्योपमायुष्केण देवसुखं बहुतरं भुनक्ति । श्रीप भोगसौख्यानि भुञ्जन् दिना| न्यत्यवाहयत् । अन्यदा मधौ श्रीपार्श्वप्रभुर्जनोपरोधेनोद्यानं वीक्षितुं ययौ । तत्रोद्याने लताद्रुमपुष्पावचयं कौतुकादिकं विलोकयन् विभुरेकमु तुंगतोरणं महान्तं प्रासादं ददर्श । प्रस्तस्मिन् प्रासादे प्राविशत् । तत्प्रासादभित्तावद्भुतराज्यराजीप्रतीत्यागं विधायाश्रित| संयमं श्रीनेमिचरितचित्रं दृष्ट्वाऽचिन्तयत् – “अहो श्रीनेमेर्वैराग्यरंगोऽनुपमो यो नवे वयसि राज्यं राजीमतीं च विहाय निःसंगः सन्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org