________________
*****
4%AA
**
मंमले कुडलहाराद्याभरणानि प्रदत्तानि । तृतीये स्थालादीनि माजनानि गजाश्वाश्च । चतुर्थे मंगले दिव्यचीवराणि प्रदत्तानि । अन्यान्यखिलान्यपि कृत्यानि कृतानि । एवं विवाहोत्सवं कृत्वा प्रीणिताशेपविष्टपः कुमारः श्रीपार्श्वः स्वगृहमाजगाम | सर्वेषां संतोषः संजातः । अश्वसेननृपेण बहु सत्कृता जनाः स्वगृहमाजग्मुः। प्रभुः प्रभावत्या सह सुखानि भुनक्ति। यतः
करकिसलयमूलं धुन्वतीनां स धन्यः श्रवणपथमनल्पा यस्य पुंसः प्रविष्टाः ।
नवरतपरिरंभे बालसीमन्तिनीनामहह न न न मा मा मुञ्च मुञ्चेति वाचः ॥१॥ कुंकुमपंककलंकितदेहा पीनपयोधरकंपितहारा । नूपुरनादरणत्पदपद्मा कं न वशं कुरुते भुवि रामा ॥२॥
प्रभुः श्रीपार्श्वस्तया सह क्रीडन् जनानां प्रीतिं जनयन् वासरानत्यवाहयत् ।। सोमविमलसूरीशः सर्वज्ञः सर्वसौख्यदः । पार्श्वनाथो जिनो जीयाद्विघ्नवा(वा)तहरः परः ॥१॥ इति श्रीतपागच्छे श्रीजगच्चन्द्रमूरिपट्टपरंपरालंकारश्रीपूज्यश्रीहेमविमलमरिसंतानीयगच्छाधिराज श्रीपूज्य श्रीहेमसोमसूरिविजयराज्ये पूज्यश्रीपं०संघवीरगणिशिष्यपं० उदयवीरगणिविरचिते श्रीपार्श्वनाथगद्यबन्धलघुचरित्रे
भगवच्च्यवनजन्माभिषेकविवाहोत्सववर्णनो नाम पञ्चमः सर्गः॥५॥ पार्श्वनाथचरित्रस्य पञ्चमः सर्ग एव च । पंडितोदयवीरेण गद्यवन्धेन निर्मितः ॥१॥
*****
2525
*
**
JainEducatnam
For Personal & Private Use Only
KLibrary.org