________________
चरित्र
| "यस्य वं त्राता तस्य सर्वत्र सौख्यं भवति । अन्यच्च मम पुत्री प्रभावती भृशं पार्श्वकुमारेऽनुरागिणी वर्तते । प्रसघ तस्याः प्राणिग्रहणं | कारयतु" । अश्वसेनोऽवदत्-"भद्र साधूचे । अस्माकं मनोरथोऽस्ति । परं पार्श्वः संसाराद्विरक्तोऽस्ति । न जाने किं करिष्यति । परं त्वदुपरोधादधुना पार्श्व बलादपि पाणिग्रहणं कारयिष्यामि । तन्मा कृथास्त्वमधृतिः" । इत्युक्त्वा तेनैव सह पार्थान्तिकं ययौ । पार्श्व | प्रति जगा-'वत्स त्वं प्रसेनजित्पुत्रीमुदह' । श्रीपार्थोऽवदत्-"नैव परिणेष्यामि । कुतः १ अयं भवाब्धिर्दुस्तरः । संसारे बहूनि | पाणिग्रहणानि कृतानि सन्ति । अहं संसारमुन्मूलयितुमिच्छामि । स्त्री भववृक्षस्य मूलं । मम संसारस्थित्या कार्य नास्ति"। अश्वसेननृपोऽप्यूचे-"वत्से दृशेन मनसापि त्वमस्मन्मनोरथं पूरय । प्राक्तनजिनाः कलत्रिणो भृत्वा पश्चात्तपसा सिद्धाः। त्वमपि पाणिग्रहणं कृत्वा संसारसौख्यानि भुक्त्वा पश्चात्स्वार्थ साधय, । प्रभुस्तातवचनमनुल्लंध्यं ज्ञात्वा तद्वचनं मेने । तदिनाद्विवाहोत्सवः प्रारब्धः । स्थाने स्थाने गीतगानानि,स्थाने स्थाने नाटकानि,स्थाने स्थाने वाद्यानि,स्थाने स्थाने मांगल्यानि, स्थाने स्थानेदानानि,स्थाने स्थाने भोजनानि, एवं विधोत्सवैर्दिनानि अतिवाद्यन्ते । विवाहदिवसे प्राप्ते समुहूर्ते प्रभावतीं स्वर्णकुंभैः स्नपयित्वा गुरुदत्ताक्षतान् मृमि निवेश्य चन्दनाक्षतर्वादिहस्ताः कुलस्त्रियो दिव्यवासोभिर्विविधाभरणैश्वालंकृतां चक्रुः । इत्थं श्रीपार्श्वकुमारोऽपि सुमुहूर्ते सुलग्ने | परिवारपरिवृतो धवलद्विरदारूढः कृतमंगलः मच्छत्रचामरवीजितोऽनेकपार्थिववेष्टितस्तूर्यनादैर्जितः पुरखीभिर्वीक्ष्यमाणो लीलया गच्छन् विवाहमंडपं प्राप । तत्र सुशीलेन द्विजपुंगवेन क्रमेण कुलाचारः कृतः । मंगलाचारपूर्वकमुभयोर्वरकन्ययोः करमेलको जातः । अध्यांचलौ चत्वरिकान्तरे गती । तत्र स्वजनाः श्रीखंडपुष्पतांबूलनेपथ्याश्वगजादिभिश्च सन्तोपिताः । याचकानां दानादि दत्तं । आज्यलाजाद्यविप्रेण हवनपूर्वक विधिना भ्रमयितुमारेभे । तत्र प्रथमे मंगले राज्ञा श्वशुरेण स्वर्णभाराः सहस्रशः प्रदत्ताः। द्वितीये
॥
in Education International
For Personal & Private Use Only
wilmjainelibrary.org