________________
**
*
**
चत-'वयं श्रीपार्श्वकुमारस्य सेवकाः श्रीपाच नन्तुमेष्यामः' इति संबोध्य तं विससर्ज । तत एवं नृपमवदत्-"राजन् जगत्रयना थस्य श्रीपार्श्वनाथस्य सुरासुरनागेन्द्रा वासवाः सर्वेऽपि सेवन्ते । स चक्रवर्ती जिनो वा भविष्यति तेन सह को विरोधः ? क सूर्यः क्व च खद्योतःक सिंहः क्व च शशः तथा क्व पावः क्व च त्वं ? यस्य पार्श्वस्य समीपे इन्द्रो मातलिसारथिं सशस्त्र प्रेषीत । तस्मात्त्वं कुठारं कंठे कृत्वा पार्श्व समाश्रय." । तदा यवनः प्रांचे-'पार्श्वस्यैवंविधं पराक्रम नाहं जाने' । इत्युक्त्वा सर्वसामन्तमंडलेश्वरसंयुक्तः कुठारं कंठे कृत्वा यवनः पार्श्व नन्तुं समागाद् । प्रभोः सैन्यं समुद्रवनिरीक्ष्य मृगवत्वस्यन् आवासद्वारेऽगमत् । वेत्रिणा प्रभोराजया सभायां प्रवेशितः । तत्र प्रभुणा परशुमोचितः। यवनः प्रभोश्चरणयोरनमत् । प्राञ्जलिर्यवनोऽवदत्-"स्वामिन्नहं तव सेवकोऽस्मि । ममापराधःक्षन्तव्यः। सर्वदा त्वमेव शरणं ममास्तु"। श्रीपाश्वों जगो-'भद्र भद्रं ते भवतु, स्वां श्रियं भुंश्व, पुनरीदृग् न कार्य तथेति प्रतिपेदानः प्रभुणा सत्कृतः। प्रभोराज्ञया यवनः स्वस्थानमगमत् । प्रसेनजित्सर्वज्ञात्वा प्रभावतीमादाय गत्वा वामेयं नत्वा हृष्टः कृताञ्जलिः पोचे-“हे नाथ त्वदीक्षणान्मे दृष्टिः सफलाऽभवत् । यवनोपि सज्जनोऽभूत् । त्वं भानुवत्प्रकाशकर्ता । इमां कन्यां सश्रीकां परिणीय मां कतकत्यं कुरु" । अथ श्रीपाश्वोऽवदत्-'राजन् ताताज्ञां विना कन्यां नोहे । तस्मादाग्रहं वृथा मा कृथाः । तदा प्रभावती दध्या"हा हाहं मन्दभाग्या । मम मनोरथसिद्धिर्न जाता" । प्रसेनजिद् दध्यौ-"पार्श्वकुमारः सर्वथा निःस्नेहः । अश्वसेननृपस्योपरोधात से मनोरथसिद्धिर्भविष्यति" । ततः प्रभावतीमाश्वास्य पार्श्वकुमारेण सह कन्यां गृहीत्वा वाराणस्यां ययौ । तत्र महध्या सुरासुरैः स्यमानस्य पार्श्वकमारस्याश्वसेननृपो नगरप्रवशोत्सवमातनोत् । इन्द्रेणागत्य द्वात्रिंशद्वन्दनादिकं कृत्वा दिनाष्टकं महोत्सवः कृतः। प्रभावत्या सहागतः प्रसेनजिदश्वसेनस्यावासं गतः । प्रसेनजिद्राजमिति अब्रवीत्-'कुशस्थलपुराधीश ता राज्ये कुशलं सर्वत्रास्ति ?' । तेनोक्तं
**
*
For Personal Private Use Only