SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ० ९४॥ दयत् । अखिलं सैन्यं मिलितं । तज्ज्ञात्वा श्रीपार्श्वो नृपान्तिके क्रीडागृहात् समागात् । पितरं जगौ - "एष संरंभः कस्योपरि ? " | ततोऽश्वसेननृपोऽगुल्या तं नरं दर्शयन् सर्वे कथयामास । तदा पुनः पार्श्वकुमार इदमभ्यधात् - " वराको यवनः, तस्योपरि कीशो ऽयमुद्यमः ? पूज्यास्तिष्ठन्तु | अहं तस्य शिक्षां करिष्ये " । नृपस्तद्भक्तिशक्तिक्षमं वाक्यं श्रुत्वा हृष्टः श्रीपार्थं ससैन्यं पीत् । श्रीपार्श्वो गजारूढः पुरुषोत्तमयुतोऽनेक भूपालसंयुतश्वचाल । स्वामिनः पुरत नागा इव गजालुः नदीरया व हयाचेलुः, रथाः क्रीडागृहा इव चेलुः, पत्तयः कपिवल्गन्ति स्म । एवंविधया क्रीडया प्रभुः यवनखेलनार्थं चचाल । | तदा बन्दिघोषैः शंखादिशब्दैर्निस्थाननिस्वनैरुत्सर्पद्भिः शब्दायमानमंबरं जातं । प्रथमे प्रणाय के मातलिसारथिः सरथ उपेत्य प्रभुं | नत्वैवं प्रोवाच- 'नाथाहं शक्रसारथिः त्वामतुलबलं शक्रो जानाति, तथापि तेन भक्त्याऽहं सरथः प्रेषितः । प्रभुस्तद्रथमारुरोह । | कियद्भिर्दिनैः प्रभुः कुशस्थलपुरासन्नोद्याने सुरकृते सप्तभूमिके आवासेऽवसत् । ततो महादक्षं दूतं सुशिक्ष्य यवनान्तिके प्रेषीत् । स गत्वा यवनं स्माह - " श्रीपार्श्वकुमारस्त्वां मन्मुखेनैवमादिशति, भो यवन त्वं बलं मा कृथाः, निजस्थानं याहि । अहं पार्श्वः समा| गतोऽस्मि " । तदा यवनो ललाटमत्युचं कृत्वाऽवदत्-" अरे दूत मां किं त्वं नो वेत्सि ? कोऽश्वसेनः ? कः पार्श्वः १ यो मां समभि| पेणयति । निष्ठुरं भाषमाणमपि त्वां दूत्वान्न हन्मि । स्वस्वामिने मदुक्तं निवेदय" । पुनरपि दूतोऽप्याह - "मूढ किं मुधा गर्व वहसि ? | किं जगतां पतिं नो जानासि १ ननु प्रभुस्त्वां समरे बोधयिष्यति " इति ब्रुवन्तं दूतं यवनस्य भटाः सदायुधा हन्तुमुद्यताः । तदा वृद्धामात्यस्तान् भटान् साक्षेपमिदमुचिवान्- “भो जडा भवतामाकस्मिकः क्षयोऽयं । यस्य सदेवा इन्द्राः सेवां कुर्वन्ति तस्य श्रीपार्श्वकुमारस्य दूतस्य हनने युष्माकं का गतिः १ " । इति श्रुत्वा भयभ्रान्ता भटाः सर्वेपि शान्ति ययुः । मंत्री दूतं करे कृत्वा इत्यवो Jain Education International For Personal & Private Use Only afta ।। ९४ ।। www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy