________________
राज्यश्रियं त्यक्त्वा व्रतमुपादत्त । इत्यर्धकथितेऽश्वसेननृपः शिरो धुन्वनेत्रमुवाच - "अहो महानुभावः सत्त्वाधिको यः स्वीकृतं राज्यं तत्याज" । सोऽपि भूयः पुमानूचे - "नवर्मणः सूनुः प्रसेनजिन्नामार्थिनां कल्पवृक्षोपमस्तत्र राज्यं करोति । तस्य प्रभावती नाम्ना कन्यास्ति । सा संप्रति नवयौवना प्रत्यक्षं सुरकन्यावद्रराज । तादृशीं तां समुद्भूतनत्रयौवनां वीक्ष्य पिता चिन्तातुरोऽनुरूपवरं सर्वत्रान्वेषयामास । किं तु तादृक् कोऽपि वरो न प्राप्तः । अथान्यदा सा सखीभिः परिवृता वने क्रीडार्थं ययौ । तत्र किंनरीभिर्गीयमानं पार्श्वरूपमशृणोत् । तस्य गुणोत्कीर्तनं शृण्वन्ती सा पार्श्वकुमारे सानुरागा जाता । अन्यक्रीडां व्रीडां च त्यक्त्वा हरिणीवत्तद्गीतं शृण्वन्ती शून्यीभूतमनसा लीनाऽभूत् । स्मरबाणैस्ताडिता निश्चेष्टाऽभवत् । तदा सखीजनस्तां पार्श्वनाथं ध्यायन्तीं संबोध्य स्ववेश्मनि निन्ये । सख्यस्तत्स्वरूपं पित्रोर्व्यजिज्ञपन् । पित्रोः प्रमोदो जात:- "एतच्छुभं चिन्तितं युक्तोऽयं संयोगः, श्रीमत्पार्श्वकुमारो जगत्त्रयशिरोमणिर्वरः सुन्दरः प्रचुरायुः पुत्र्या चिन्तितः मया ध्रुवं पार्श्वकुमारेण सहोद्वाहः कार्यः, उत्तमनरैर्विद्या कन्या च सत्पात्रे विनियोज्या, सुमुहूर्ते चेमां कन्यामधिपार्श्व स्वयंवरां प्रेषयिष्यामि " इथं पितृवचः श्रुत्वा सा कन्या मुमुदेतरां । तच्च व्यतिकरं कलिंगदेशपतिर्यवनाभिघ उद्धतो भृकुटीभीपणः कथमपि ज्ञात्वाऽवादीत् - "मयि सति कः पार्श्वः प्रभावतीमुद्रोढा ? कोऽयं प्रसेनजित् ? यो मां मुक्त्वा तां तस्य प्रदास्यति" । इत्युक्त्वा भूरिसैन्यैः परिवृतः कुशस्थलपुरं वेगादागात् । तेन पुररोधः कृतः । पुरं निरुध्यागमन निर्गमं जातं । ततः प्रसेनजिद् भूपश्चिन्तातुरो जातः । मंत्रिभिर्विचार्य समर्थमश्वसेननृपं ज्ञात्वाऽहं मंत्रिसागरदत्तसुतः पुरुषोतमो नाम प्रेषितः । निशीथे पुरान्निरगां । मयाऽयं वृत्तान्तो भवतः कथितः । अथ यद्युक्तं कृत्यं तत्करोतु ” । इत्याकर्ण्याश्वसेननृपो * रुपाञ्जवीत् -" कोऽयं वराको यवनः । मयि सत्यपि का मीतिः । एषोऽहं सज्जसैन्यः कुशस्थलं त्रातुमागतः । इत्युक्त्वा भामवा
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org