SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ |र्श्व० m ९३ ॥ सत्कारपूर्वकं कथयति–“ भोः स्वजनाः श्रूयतां, एतस्मिन् बालके गर्भस्थिते मात्रा निशि धान्तेपि पार्श्वतः सर्पन्तं सर्पमद्राक्षीत् तद्गभानुभावत एवैतस्य बालकस्य पार्श्व इत्यभिधा भवतु " । तदा स्वजनसमक्षं अश्वसेननृपो बालकस्य पार्श्वाभिघामकरोत् । स बालो धात्रीभिर्लाल्यमान आदराद् द्वितीयाचन्द्रवत् क्रमेण वृद्धिं प्राप । क्षुधोदये शक्राहितं निजांगुष्ठादमृतं पपौ । देवांगनाः स्वामिनं प्रीत्या रमयामासुः । स श्रीपार्श्वो वज्रर्षभनाराचसंहननः समचतुरस्त्रसंस्थानो चिंत्रोष्ठोऽसितशरीरो नीलकान्तिः सुनयनः पद्मनिःश्वासो द्वात्रिंशक्षणधरो बाल्यमुल्लंघयति । गंभीर उन्नतः सूक्ष्मः सरलः पृथुलोऽसितः । अदीर्घस्त्रिषु त्रिष्वेवं द्विशुभ्रो नवपाटलः ॥ १ ॥ नाभौ सत्त्वे स्वरेऽगाधस्तुंग सपदमूर्धसु । सूक्ष्मः केशे नखे दन्ते सरलोंऽह्रौ भुजें गुलौ ॥ २ ॥ पृथुलो भ्रूमुखोरस्सु तारावृंत (पांग) कचे शितिः । कटौ पृष्ठे च पुंश्चिह्ने तुच्छः शुभ्रो रदाक्षिषु ॥ ३ ॥ पाणिपादे गुदे तालुजिह्वयारेथ चौष्ठयोः । नखदन्तेषु मांसे च ताम्रो नवसु शस्यते ॥ ४ ॥ एभिर्द्वात्रिंशल्लक्षणैः संयुक्तः, अष्टाग्रसहसैर्लक्षणैर्युक्तः, नवकरतनुमानः, अद्भुतदेहरूपगन्धः अदृश्याहारनीहारः, निरामयः, मलस्वेदोज्झितः एवंविधो भगवान् विशेषतो रेजे । क्रमेण युवतिजनाह्लादकरं नवयौवनं प्राप । एकदा नृपमास्थानस्थितं कचिन्नर एत्यैवं व्यजिज्ञपत् — “स्वामिन् इतः पश्चिमदिग्भागे कुशस्थलं पुरमस्ति । तत्र नरवर्माख्यो नृपतिरासीत् । स सुकृती सत्यवादी धर्मप्रवर्तको जिनधर्मे रतः साधुशुश्रूषापरो नीत्या राज्यं प्रतिपाल्य For Personal & Private Use Only चरित्र ॥ ९३ ॥ jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy