________________
पाभ
चरित्र
-
हा एते कलशाः क्षीरोदध्युदकै ताः । अच्युतादिसुराधीशा विधिना जिनमस्नययन् । पारिजातकपुष्पादिभिर्जिनमानचुः । तदा |च ते देवास्तुष्टुवुः । केपि सुरा हृष्टा ननृतुः । केपि सुरा गान्धारवांगालकौशिकहिंडोलदीपकमधुमादेशचारुधारणसोहागाधरासभाणवल्लीकुकुभा इत्यादिदिव्यदेवरागगीतमानानि कुर्वन्ति । केपि सुराः पद्पश्चाशत्कोटिताल भेदैदिव्यनाटकं कुर्वन्ति । कपि ततेन विततेन घनेन सुषिरेण चतुर्विधेन वाद्येन कौतुकं पूरयन्ति । केपि कौतुकावल्गुः । केपि मधुरस्वरैर्भावनां भावयन्ति । ते कलशास्तत्रैवान्तर्भूताः । आप्रभुमीशानेन्द्रांके न्यस्य सौधर्मेन्द्रश्चतुर्वृषभरूपाणि विकुळ विषाणोत्थैवारिभिः स्नपया
मास । विभोरंगं दिव्यवस्नेणोन्मृज्य दिव्यश्चन्दनर्विलिप्य पुष्पौधैरपूजयत् । शक्रः स्वामिपुरो रजततंडुलैरष्टो मंगलानि चाढौदा कयत् । तद्यथा
दर्पणो वर्धमानश्च कलशो मीनयोर्युगम् । श्रीवत्सः स्वस्तिको नन्दावर्तभद्रासने इति ॥१॥ ....... तः शक्रः एवं स्तोतुं पचक्रमे
जय श्रियो निधे स्वामिन्नश्वसेननृपांगज । नम्रामरशिरोमँगसंगचंगपदांबुजम् ॥१॥ अब मे सफलं गात्रं नेत्रे च विमलीकृते । स्नातोऽहं धर्मकृत्येषु जिनेन्द्र तव दर्शनात् ॥२॥ अथ मे सफलं जन्म प्रशस्तं सर्वमंगलम् । भवार्णवं च तीर्णोऽहं जिनेन्द्र तव दर्शनात् ॥३॥ अयाहं सुकृतीभूतो विधूताशेषकिल्बिषः। भुवनत्रयपूज्योऽहं जिनेन्द्र तव दर्शनात् ॥४॥
-
--
JanEduIM
For Personal Private Use Only