________________
ज्ञापयामास । ततश्च सर्वे सुरा मिलिताः । पालकाभिधानं विमानं विकुळ तदेव विमानमारुह्य देवैः परिवृतः शक्रो नन्दीश्वरदीपे समेतः । तत्र विमानं संक्षिप्य जिनजन्मगृहे समागत् । जिनेन्द्रं जिनांबां च नत्वैवमस्तवीत्-" भो रत्नधारिणि शुभलक्षणे जगन्मालस्तुभ्यं नमोऽस्तु । यया त्वया त्रिभुवनस्य धर्ममार्गप्रकाशकोऽयं दिव्यरत्नप्रदीपो भगवान् जिनः सुषुवे । अतः कारणात्तुभ्यं नमोऽस्तु । अहं शक्रोऽस्मि । जिनजन्मोत्सवं कर्तुमागाम् । तन्नो. भीतिः कार्या " । इत्युक्त्वाऽवस्वापिनी निद्रां दत्वा जिनस्य प्रतिबिंब तत्र मुक्त्वा पञ्चरूपं धृत्वा एकेन रूपेणाञ्जली जिनमाददे, उभाभ्यां रूपाभ्यां चामरद्वयमवीजयत् , एकेन रूपेण प्रभोरुपरि |च्छत्रं बिभ्रदेकेन रूपेण च वज्रमुल्लालयन् देवैः परिवृतः समुत्पत्य मेरुमहागिरी समागात् । तत्र पांडुकवने पांडुकंबलायां शिलायां जिन
स्नात्रयोग्यदिव्यरत्नसिंहासने प्रभुमंके कृत्वा वासवो हर्षनिर्भरः पूर्वाभिमुखो न्यषीदत् । अन्येऽपि प्रयुक्तावधयस्त्रिषष्टिसिवा Piमर्ध्या ताजग्मुः। १ दश वैमानिका इन्द्रा विंशतिर्भुवनाधिपाः। ज्योतिष्को द्वौ च चन्द्रार्को द्वात्रिंशद्वयन्तरेश्वराः॥१॥
तत्र कलशा विकुर्विताः । सौवर्णा राजता रात्नाः स्वर्णरूप्यमया अपि । स्वर्णरत्नमयाश्चापि रूप्यरत्नमया अपि ॥१॥
स्वर्णरुप्यरत्नमया अप्यन्ये मृन्मयास्तथा । अष्टाधिकानि प्रत्येकं शतानि दशसंख्यया ॥२॥ R पणवीसजायणतुंगा वारस जोयणाइ वित्थारा। जोयणमेगं नालो इगकोडिसटिलक्खाइ ॥३॥
SHREE NIRASAIRA%
in Education International
For Personal & Private Use Only
www.jaimelibrary.org