SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ चरित्र % A4% अलंबुसाऽमितकेशी पुंडरीका च वारुणी । हासा सर्वप्रभा श्रीहीरष्टौ दिग्रुचकाद्रितः॥६॥ . एतावामरपाणयस्तस्थुः। . विचित्रा चित्रकनका तारा सौदामिनी तथा । दीपहस्ता विदिश्वेत्य सर्वा दिग्रुचकाद्रितः ॥७॥ एता दीपहस्ताः । . रूपा रूपासिका चापि सुरूपा रूपकावती । रुचकद्वीपतोऽभ्येयुश्चतस्रो दिक्कुमारिकाः ॥८॥ एता जिनेशिटुर्नाभिनालं चतुरंगुलवर्ज छिचा विवरं पातयित्वा तत्र निचिक्षिपुः । रत्नमाणिक्यमौक्तिकैर्विवरं पूरयित्वा तदुपरि पिठिकाबन्धं चक्रिरे । अथ सूतिकागृहात् पूर्वदक्षिणोत्तरदिक्षु कदलीगृहाणि विचक्रुः । अथ तत्र जिनं जिनांबां च नीत्वा | दक्षिणोकसि रत्नमयं सिंहासनं व्यधुः। तत्र त्योस्तैलैरभ्यर्योतेनं कुर्वन्ति । ततः पूर्वचतुःशाले कदलीगृहे मणिपीठे न्यवेशहैयन् । सुगन्धिजलः स्नपयित्वा दिव्यनेपथ्यमंडनैः शृंगारयित्वोत्तरचतुःशाले रत्नासने न्यधुः। तत्रारणिकाष्ठेभ्योऽग्निमुत्पाद्य गोशी पचन्दनं दग्ध्वा रक्षापोट्टलिकाद्वयं कृत्वा तयोः करे वबन्धुः । तत्र जिनस्य गीतगानं कृत्वा पर्वतायुभवेत्युक्त्वा पाषाणगोलको मिथ & आस्फालवामासुः । भूयो वामादेवीं विभुं च शय्यागतौ विधायास्थुः । तत्र गीतगानं कृत्वा जिनं नत्वा स्वस्वस्थाने जग्मुः। | ततः स्वर्गे सुरेन्द्राणामासनानि चकंपिरे । तदा शकोऽवधिना जिनजन्मसमयं ज्ञात्वा स्वयं तत्रस्थो जिनसंमुखं सप्ताष्टपदानि समभ्येत्य प्रणम्य विधिना शक्रस्तवेनास्तवीत् । ततः शक्रो हरिनैगमेषिणमादिश्य सुघोषाघंटया तीर्थकतो जन्मकृत्यं नाकिनां Jain Education International For Personal & Private Use Only 1 .jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy