SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ भोगंकरा भोगवती सुभोगा भोगमालिनी । सुवत्सा वत्समित्रा च पुष्पमाला त्वनिन्दिता ॥१॥ एता मेरुरुचकाधोलोकस्था दिक्कुमार्यस्तत्रागत्य जिनं जिनांवां च नत्वा एवमृचिरे- "हे जगन्मातर्जगद्दीपप्रदायिक तुभ्यं नमः। वयमधोलोकवासिन्यो दिक्कुमार्यो जिनजन्मोत्सवं कर्तुमागताः स्मः । त्वं मा भैषीः" । इत्युक्त्वा संवर्तकमारुतं विकुळ योजनमितां भृमिमशोधयन् । वातेन भृमिशुद्धिमकुर्वन् । ततो जिनासननिषण्णा गायन्ति । तथा- .. - मेघंकरा मेघवती सुमेघा मेघमालिनी। तोयधारा विचित्रा च वारिषेणा बलाहका ॥२॥ ' इत्यूललोकवासिन्योऽष्टौ दिक्कुमार्यो मेघं विकुळ पृथ्वी सिक्त्वा पुष्पवृष्टिं वितेनिरे । जिनं जिनांबां च नत्वा नानाविधानि भवलगीतानि गायन्ति । : अथ नन्दोत्तरा नन्दा सुनन्दा नन्दिवर्धिनी । विजया वैजयन्ती च जयंती चापराजिता ॥३॥ एताः पूर्वरुचकात्तत्रैत्य जिनं जिनांबां च नत्वा दर्पणकरास्तस्थुः । समाहारा सुप्रदत्ता सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेषवती चित्रगुप्ता वसुन्धरा ॥४॥ एता दक्षिणरुचकस्थास्तत्रैत्य जिन जिनांबां च नत्वा श्रृंगारपाणयस्तस्थुः । इलादेवी सुरादेवी पृथिवी पद्मावत्यपि । एकनासा नवमिका भद्रा शीतेति नामतः ॥५॥ एताः पश्चिमरुचकस्था जिनं जिनमातरं च नत्वा व्यजनपाणयस्तस्थुः । 8ORICROCESAKASE Jain Educ a tional For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy