________________
पार्श्व०
८९ ॥
अथ पञ्चमः सर्गः ।
चिदानन्दरूपं जिनं पार्श्वनाथं सदा मोददं देवदेवं विनम्य । सतां संमतः पञ्चमः सर्ग एव मया रच्यते गद्यबन्धेन सद्यः ॥ १ ॥
अथ सिंहजीवो विविधानि नरकतिर्यग्योनिभवानि दुःखानि सहमानः क्वापि सन्निवेशे रोरविप्रसुतोऽभवत् । तस्य सुतस्य कर्मवशाद्वाल्ये जनकजननीबान्धवा विपन्नाः । ततो लोकैर्जीवितो रंको जातः । कमठ इति नाम्ना क्रमेण यौवनं प्राप्तः । मन्दिरं मन्दिरं प्रति भ्रमन् भिक्षया भोजनं दुःखेन प्रामोति । एवं सोऽतिदुःखी जातः । परकीयां समृद्धिं दृष्ट्वा विद्यति । मम कर्मणा दुःखीकतोऽहं । यतः -
ब्रह्मा येन कुलालवन्नियमितो ब्रह्मांडभांडोदरे विष्णुर्येन दशावतारगहने क्षिप्तः सदा संकटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ १ ॥ सोऽन्येद्युरीश्वरान् रत्नस्वर्णालंकार भूषितान् दृष्ट्वा सद्यः समुत्पन्नवैराग्यादित्यचिन्तयत् - " अमी पुण्यवन्तः सहस्राणामुदरंभरयो देववद्दिव्यवस्त्रधराः, अहं स्वोदरभरणेऽप्यक्षमः ।
Jain Education International
For Personal & Private Use Only
चरित्र
॥ ८९ ॥
jainelibrary.org