SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ षणः सिंहस्तं महर्षिं दूरादद्राक्षीत् । प्राच्यवैरान्मह्या पुच्छमाच्छोदयन् हरिरास्यं प्रसार्याभ्यधावत् । तदा तत्कृबूत्कारप्रतिशब्दमिषाद् गिरिगर्जितः । रौद्रध्यानो मृगेन्द्रस्तं शुक्लध्यानस्थितं महामुनीश्वरं चपेटयाऽहन् । तदा स मुनिर्विशेषतः शुक्लध्यानमापूरयन् चतुःशरणपूर्व तमप्रतिमातिथिं गणयन् रागद्वेपरहितः सम्यगालोचनां कृत्वाऽखिलांगिषु क्षामणां चेक्षुरसवद्धर्मरससारमादाय कूर्चकवदेहं त्यजति । स मुनिर्हरिणा विदीर्णः सन् मृत्वा दशमे प्राणते देवलोके महाप्रभविमाने विंशतिसागरोपमस्थित्या सर्वोत्तमसुरोऽभवत् । तत्राधिकाधिकं सुखं भुनक्ति । सिंहोऽपि पापिष्ठः पापात्मा मृत्वा चतुर्थ्यां पंकप्रभायां नरकपृथिव्यां नारको जातः । तत्र तीव्र वेदनां सहतेस्मदसविहवेयण नरए सीओसिण खुप्पिवास कंडुअ । भय सोग पारवस्स जेरो अवाही य दसमो अ ||१|| तस्मादुद्धृत्य विविधतिर्यग्योनिषु भ्रमन् सर्वत्र बहुदुःखमासदत् । सौभाग्य हर्षसूरीशः सर्वसंपद्विधायकः । पार्श्वनाथो जिनो जीयाद्भव्यानां भवतारकः ॥ १ ॥ इति श्रीतपागच्छे श्रीजगच्चन्द्रसूरिपट्टपरंपरालंकार श्री हेमविमलसूरि संतानीयगच्छाधिराज श्री पूज्य श्रीहेमसोमसूरिविजयराज्ये पूज्याराध्यपं० श्रीसंघवीरगणिशिष्यपं० उदयवीरग्रणिविरचिते श्री - M पार्श्वनाथगद्यबन्धे लघुचरित्रेऽष्टमनवमभववर्णनो नाम चतुर्थः सर्गः । पार्श्वनाथचरित्रस्य सर्गस्तुरीय एव च । पंडितोदयवीरेण गद्यबन्धेन निर्मितः ॥ १ ॥ १ धर्मध्यानमिति पाठान्तरं Jain Education Infernational For Personal & Private Use Only অ% % कर भर www.jainvelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy