SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ वि० ८८ ॥ तथा च- अवाप्य धर्मावसरं विवेकी कुर्याद्विलंबो न हि विस्तराय । यतो जिनस्तक्षशिलाधिपेन रात्रिं व्यतिक्रम्य पुनर्न लेभे ॥ ३ ॥ अहो महानुभावा असारे संसारे धर्म एव सारः । तस्माध्धर्म एव कार्यः । इत्थं चैकमनसा जिनेश्वरस्य वचनामृतं शृण् क्रवर्तिनः शुभाध्यवसायादीहापोहं कुर्वतो जातिस्मरणं समुत्पन्नं । पूर्वभवाचरितं चारित्रं स्मृतं । वैराग्यं समुत्पन्नं । 'अधलं राज्येन मोक्षाय यतिष्ये' ( इति निश्चित्य ) पञ्चमुष्टिकलोचः कृतः । जगन्नाथसमीपे स्वर्णबाहुअक्रवर्ती दीक्षां जगृहे । निरतीचारं पश्चाचारं चारित्रं प्रतिपालयति । तपस्तप्यमान एकादशांगीं पठमानः स क्रमाद्गीतार्थोऽभूत् । द्वाविंशतिपरीषहान् सेहे । श्रीजिनमापृच्छय क्रमेणैकाकी विहारं चक्रे । धर्मध्यानेषु लीनांगः कर्मणां क्षयं करोति । कियद्भिर्दिनैर्विंशतिस्थानानि चाकरोत् । तथाहिअरिहंत सिद्ध पवयण गुरु थेरे' बहुस्सुए तवस्सीसु । वच्छल्लया एएसिं अभिक्खणणोवओगे अ ॥ १ ॥ दर्पण विर्णए आवेस्सए य सीलैव्वए किरइयाणं । खणलवैतव च्चियाएँ वेयावच्चे समाहीएँ ॥ २ ॥ अपुव्वनणगहणे सुत्तभत्ती पवयणे पेंभावणया। एएहिं ठाणेहिं तित्थयरत्तं लहइ जीवो ॥ ३ ॥ इमानि विंशतिस्थानानि कृतवान् । एकदा स वज्रबाहुमुनीश्वरो विहारं कुर्वन् क्षीरगिरिसन्निधौ महाटव्यां प्रतिमया तस्थौ । इतन कमठजीवः कुरंगको भिल्लो नरकादुवृत्य तस्मिन्नेव पर्वते सिंहो बभूव । स सिंहस्तत्राटव्यां भ्रमन् समाययौ । स यमवद्भी Jain Education International For Personal & Private Use Only चरित्र 11 66 11 jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy