SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ जागरणादि ७० 1 नवरात्रियात्रादि ७१ । अनन्तचतुर्दश्यामनन्तदवरकबन्धनादि ७२ । अमावास्यायां जामातृभागिनेयभोजनादि ७३ । सोमवारयुतामावास्यायां नवोदकामावास्यायां च नदीतडागादौ विशेषस्नानादि ७४ । दीपोत्सवामास्यायां पितृनिमित्तं प्रदीपप्र४दानं ७५ । कार्तिकीवैशाखीपूर्णिमयोः स्नानादि ७६ । होलिकाप्रदक्षिणादि होलिकानमस्याभोजनादि ७७ । श्रावण्या तु * बलिपर्व ७८ । दीवासादिकरणं ७९ । उत्तरायणकल्पनं ८० । एवं देशप्रसिद्धमनेकविधं लौकिकदेवगतं मिथ्यात्वं । लौकिकगुरूणां ब्राह्मणतापसयोगिकादीनां नमस्कारकरणं । तापसाग्रे आँ नमः शिवायेति भणनं । मृलाइलेपादिजाते बाले विप्रोक्तक्रियाकरणं । विप्रादीनां कथाश्रवणं । तेभ्यो गोतिलतैलादिभोजनादिदानं । तेषां गृहे बहुमानार्थ गमनादि च । लोकोत्तरदेवगतं तु परतीथिंकसंगृहीतजिनबिवार्चनादि । सपत्ययश्रीशान्तिनाथपार्श्वनाथादिप्रतिमानामिहलोकार्थ यात्रोपयाचितमाननादि च लोकोत्तरगुरु गतं च लोकोत्तरलिंगिषु पार्श्वस्थादिषु गुरुत्वबुध्ध्या वन्दनादि । गुरुस्थानादौ ऐहिकफलार्थ यात्रोपयाचितादि च। या देवे देवताबुद्विगुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा सम्यक्त्वमुपलभ्यते ॥१॥ अदेवे देवताबुद्धिमुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च मिथ्यात्वमेतदेव हि ॥२॥ तम्मान्मिथ्यात्वं त्याज्यं । भिथ्यात्वादनन्तकालं संमारे जीवः परिभ्रमति । केवलं सम्यक्त्वमेवांगीक्रियतां । यतःअंतोमुत्तमित्तं पि फासिअं जेहिं हुज सम्मत्तं । तेसिं अवड्डपुग्गलपरियट्टो चेव संसारो ॥१॥ भवकोटीदुप्पापामवाप्य नृभवादिसकलसामग्रीम् । भवजलधियानपात्रे धर्मे यत्नः सदा कार्यः ॥ २॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy