________________
Jain Education
*****
ह
पतिर्वरणीयः सर्वासामेक एव पतिर्भवतु इति । तज्ज्ञात्वा मया नैमित्तिकः पृष्टः - एतासां कः पतिर्भावीति । ततो ज्ञानवान्नैमित्तिकोऽप्याह -- राजन् सुरपुरे नगरे सुवर्णबाहुश्चक्री षट्खंडाधिपतिः पतिर्भावीति निशम्य मया गजरूपेणापहृत्यात्रानीतः " । तदा सुव र्णबाहुभूपतिस्तासां प्राणिग्रहणं करोति । तत्रान्यैरपि खेचरैः स्वकीयांगजानां पाणिग्रहणं कारितं । दक्षिणश्रेणीपतिना रत्नचूड| विद्याधरेश्वरेणापि स्वकीयांगजा दत्ता । तत्रस्थैरन्यैरपि खेचरैः बह्वयः कन्या दत्ताः । तत्र पञ्चसहस्रमिताः कन्याः परिणीताः । यतः - गुणैः स्थानच्युतस्यापि जायते महिमा महान् । अपि भ्रष्टं तरोः पुष्पं जनैः शिरसि धार्यते ॥ १ ॥ अथ सौभाग्यभाग्यभोगभूः सुवर्णबाहुनृपतिः पद्मावत्यादिपत्नीभिः समस्ताभिः समन्वितो बहुविद्याधरपरिवारपरिवृतो निजपुरं प्राप । तस्य महीशक्रस्य विधिना महीं शासतश्चतुर्दश महारत्नानि क्रमशोऽभूवन् । तद्यथा
चक्रचर्मच्छत्रदंडाः कृपाणिः काकिणि (णी) र्मणिः । गजाश्वगृहसेनानीपुरोधःस्थपतिस्त्रियः ॥ १ ॥ तदा महामहोत्साहेन राज्ञाऽष्टाहिकामहोत्सवः कृतः । तदा स नृपश्चक्रवर्ती जातः । अथान्यदायुधशालातश्चक्ररत्नं पूर्वस्यां दिशि प्रस्थितं । चक्रवर्ती ससैन्यां दिग्विजयार्थे निर्गतः । क्रमेण व्रजन्नब्धौ मागधतीर्थमासाद्य कृताष्टमतपा मागधतीर्थेश्वरं प्रति बाणमक्षिपत् । मागधेशः समासीनस्तं वाणं पुरः पतितं दृष्ट्वा ' अरे कस्य वराकस्य यमः क्रुद्धः १' इति ब्रुवन् रुषा तं वाणमग्रहीत् । तत्र चक्रिनाम वीक्ष्य शान्तकोपी जातः । तत्रोपदापाणिरेत्यानमत् । आह च - ' ते भृत्योऽस्म्यहं ' । चक्री सत्कारपूर्वकं तं विसृज्य कृतपारणोऽष्टाहिकोत्सवं चक्रे । एष चक्रवर्तिविधिरेव । एवं सर्वत्राप्यधिदेवानष्टमतपसा वाणमोचनेन वशीकुर्वन् दक्षिणस्यां दिशि वरदाम प्रभासुरं तथैव वशीचक्रे । तथा सिन्धुसुरमपि नृपः क्रमाशीचक्रे । तथा वैताव्यमिरिमेत्य सैन्यं स्थापयामास । सेनान्यं प्रेष्य
For Personal & Private Use Only
www.jainelibrary.org