SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ पार्श्व० ८५ ॥ Jain Edur ८८२ लोकाः सर्वेऽपि मुदिता अभूवन् । अथान्यदा वसन्त ऋतुराट् समागतः । अनेके पादपाः पल्लविताः पुष्पिताच । यतः - रेजे वसन्तसमयो यत्र पल्लविता घनाः । एलालवंगकर्पूरपूगाद्या विलसन्त्यगाः ॥ १ ॥ कइलीलवलीद्राक्षानागवल्लीप्रियंगवः । वासन्त्याद्या लताः कंप्रैर्नृत्यन्तीवाग्रपल्लवैः ॥ २ ॥ मालती यूथिका मल्ली केतकी माधवी लता । चंपकाद्या हसन्तीव विकाशिकुसुमच्छलात् ॥ ३ ॥ तस्मिन् समये वनपालक आरामिकस्तस्य नृपस्य सदसि समागत्य प्रोक्तवान्-' प्रभो वने वसन्तर्तुः क्रीडति । तन्निशम्य नृपस्तस्य पारितोषिकं दत्वा वने वसन्तक्रीडायै ययौ । तत्र कदलीगृहे माधवीमंडपेषु क्रीडां करोति । कदाप्यश्वक्रीडारतः, कदापि करिक्रीडारतः, कदापि जलक्रीडारतः, कदापि मल्लक्रीडारतः, कदाप्यक्षक्रीडारतः, कदापि हास्यक्रीडारतः कदापि नाट्यक्रीडारतः, कदापि गीतश्रवणादिक्रीडारतः, कदापि चतुरशीतिकासनैः सुरतक्रीडारतः, इत्यादिविविधप्रकारैर्वसन्तक्रीडां चकार ॥ एकदा वनेऽश्वक्रीडां कुर्वन्नस्ति । तदैकः करी चतुर्दशनो जंगमरजतगिरिरिव रजताभो गर्जारवं कुर्वन् दृष्टः । नृपस्तत्संमुखं प्रधावितः । यथा यथा करी याति तथा तथा नृपोऽपि तत्पृष्ठौ (ष्ठे) याति । यदा नृप उत्प्लुत्य हस्तिनमारुरोह स करी तदा नृपं गृहीत्वा नभसि समुत्पपात । वैतादयाद्रौ गत्वा नगरासन्नवने नृपं मुक्त्वा नगरे गतः । तत्र मणिचूडनृपस्योत्तरश्रेणीश्वरस्य वर्धापनिका | दत्ता - ' स्वामिन् सुवर्णबाहुनृपतिरत्रानीतः वने मुक्तः । अथाहं न जाने ' । नृपस्तस्य पारितोषिकं दत्त्वा विमानमारुह्य तत्रागतः । नमस्कृत्योक्तं- 'प्रभो पुरे पादाववधार्येतां ' । सुवर्णबाहुनरेश्वरो बहुमानेन नगरमध्ये गतः । तत्र तेन विद्याधरपतिनोक्तं - " मम पद्मा | वती नामांगजास्ति । तस्याः सहस्रमिताः सख्यः सन्ति । ताभिर्विमृश्य परस्परमुक्तं - आत्मनो वियोगो मा भूदत एव सर्वाभिरेक एव emational For Personal & Private Use Only: चरित्र ॥ ८५ ॥ ainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy