SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ PRASAIKASHAIRAL मूचुः-'अधर्माज्जय एवाधुनास्ति' । तच्छ्रुत्वा तौ मार्गेऽग्रतश्चेलतुः । पथि सोपहासं भृत्याधमोऽवादी-“भोः सत्यकधन धार्मिक मुञ्चामुं तुरंग, शीघ्रं भृत्यमावं मदीयं कुरु " । कुमारेण चिन्तितम् "राज्यं यातु श्रिया यान्तु यान्तु प्राणा विनश्वराः। या मया स्वयमेवोक्ता वाचा मा यातु शाश्वती ॥१॥ सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा पुराकृतं कर्म तदेव भुज्यते स्वकर्मसूत्रग्रथितेहि लोकः शरीर रे निष्ठुर यत्त्वया कृतम् २ _इति विमृश्य कुमारेणोक्तं-"गृहाणेमं तुरंग, अहं तव पृष्ठचारी सदास्मि" । ततः स भृत्याधमोऽश्वं गृहीत्वा शीघ्रमश्वारूढो वेगाद् व्रजन् सहर्ष कुमारमनुधावन्तं श्रमखेदयुतमवलोक्येदमब्रवीत्-“भोः कुमार तवेदं धर्मपक्षपातभवं फलं, अद्याप्याग्रहं मुश्च ।* ४ अश्वं गृहाणाधर्मादेव जय इत्युक्त्वा" । कुमारोऽवोचत्-" आः पाप वृथा ते सज्जनाभिधा । किंच भो दुर्मते दुर्मतिं यच्छन् व्या-10 पादप्यधिकोऽसि । यथा वने कोपि व्याध आकर्णान्ताकृष्टसायको मृगीवधार्थमधावत् , तदा मृग्योक्तं-" अहो व्याध क्षणं प्रतीक्षस्व, मदीयापत्यानि क्षुधया बाध्यमानानि मदीयागमनाशयावतिष्ठन्ति । अहं तानि स्तन्यपानं कारयित्वा तवान्तिकं शीघ्रमायामि । | चेन्नायामि तदा मया ब्रह्महत्यादिपञ्चातिपातकान्यंगीकृतानि"। तेनोक्तं-'न प्रत्ययः' । पुनस्तयाऽभाणि-"भो व्याध यः पृच्छतो विश्वस्तस्य दुर्मतिं दत्ते तस्य पापेन जगृहेऽहं यदि सत्वरं नायामि"। ततस्तेन मुक्ता, साप्यर्भकाणां स्तन्यपानं कारयित्वाशु तत्र व्याघसमीपे समागता । व्याधं पप्रच्छ-'भो व्याध तव प्रहारतः कथं छुटथे ?'। तदा व्याधेन चिन्तितं-'पशवोऽपि पापभीताः, Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy