________________
पञ्चनमस्कारं स्मृत्वा सम्यगा लोचनां कृत्वाऽनशनं चकार । तद्यथा - " चत्तारि सरणं पवज्जामि, अरिहंता सरणं, सिद्धा सरणं, साहू सरणं, केवलिभासिअधम्मं सरणं पवज्ज. मि । तहा पच्चक्खामि हं अट्ठारसपावठाणाणं । तं जहा
पाणाइवाय १ मलियं २ चोरिक्कं ३ मेहुणं ४ दविणमुच्छं ५ । कोहं ६ माणं ७ मायं ८ लोहं ९ पिज्जं १० तहा दोसं ११ ॥ १ ॥ कलहं १२ अभक्खाणं १३ पेसुन्नं १४ अरइरइसमाउत्तं १५ । परपरिवार्य १६ मायामोसं १७ मिच्छत्तसलं १८ च ॥ २ ॥
इमाई अट्ठारसपावठाणाई व सिरामि त्ति " । तथा " नमोत्थूणं अरिहंताणं भगवंताणं इच्चाइ नमोत्थुणं मम धम्मायरियस्स धम्मोदेसगस्सावि" इत्यादि ध्यायन् एकाग्रमनाः शुभं ध्यानं ध्यायन् समाधिमृत्युनः मृत्वा मध्यग्रैवेयके आनन्दसागरनाम्नि विमाने ललितांगाभिवः सुरो निर्मलानन्दमनमानसः संजातः । तत्र सप्तविंशतिसागराण्यायुर्भुक्तवान् । स पुलिन्दः स्वं धनुर्धरोत्तमं मन्यमानः कियता कालेन विपद्य सप्तमावनौ तमःतमः प्रभायां पृथिव्यां नारकः समर्जनि ॥ इति ॥
गुरुश्री हेमविमलतनुद्युतिविधायकः । पार्श्वनाथो जिनो वः स्तान्मनोवाञ्छितसिद्धये ॥ १ ॥ इति श्रीतपागच्छनायक श्रीपूज्य श्रीजगच्चन्द्रमूरिपट्टपरंपरालंकार श्रीपूज्य श्री हेमविमलसूस्रिसंतानीय श्रीहेमसोमसूरिविजयराज्ये पंडितश्रीसंघवीरगणिशिष्यपंडित श्रीउदयवीरगणिविरचिते श्रीपार्श्वनाथगद्यबन्धलघुचरित्रे षष्ठसप्तमभववर्णनो नाम तृतीयसर्गः ॥
Jain Education International
For Personal & Private Use Only
%%%%%%%**
www.jainelibrary.org