________________
व
अज्यं पालयन् गुर्वनुज्ञयकाकिविहारप्रतिमां दधौ । स दुस्तपस्तपस्तपति । तपसोऽनुभाषाद्वयोमगमनलब्धिर्जाता । अन्येधुर्विहारं कुर्वन्
आकाशगत्या सुकच्छबिजयं ययौ। है अथ सोप्यहिजीवो नरकादुद्धृत्य भवं भ्रमन् ज्वलनाद्रौ सुकच्छविजये कुरंगकनामा भिल्लोऽभूत् । प्रत्यक्षपापपिंडरूपः करालाक्षो मषीनिभो बहुन् जीवान् हिंसन् संहरन् प्राणवृत्ति करोति । तदा श्रीवज्रनाभमुनीद्र एकदा कर्मवशाद्भवितव्यतावशाद्वा तत्रैव |
जलनाद्री रात्री कायोत्सर्गेण तस्थिवान् । तत्र धान्ते सर्वत्र व्याप्तेऽतिभीषणे घूकारघूत्कारैः द्वीपिनां फू(बू)त्कारैः शिवारवैः है कुरवैः भृतव्यन्तरकृताट्टहासरविभ्यत् सुतरां हृदि दीप्यमानध्यानप्रदीपकः स मुनिधर्मजागरणेन तस्थौ । इतः प्रातः कुरंगकपुलिंदेन 3 पापद्धिव्यग्रेण स मुनिर्ददृशे । तदा स पापरूपः पापिष्ठःपाच्यद्वेषवशात्स्फूजत्कोपः 'प्रातरयमनिष्टः' इति ध्यात्वा शरेण हत्वा भि
लस्तं मुनीश्वरं भुवि न्यपातयत् । गाढप्रहारेणार्तोऽपि आर्तध्यानरौद्रध्यानपरो मनागपि नाभूत् । मनसि च दध्यौ--"सहस्व रे जीव हतिवैवेदं पुराकृतं कर्म । यतःउपेक्ष्य लोष्टक्षेप्तारं लोष्ठं दृष्ट्वात्ति मंडेलः। सिंहस्तु शरमप्रेक्ष्य शरक्षेप्तारमीक्षते ॥१॥
*॥८३॥ उपदेशमालायाम्पत्थरेणाहओ कीवो पत्थरं डक्कुमिच्छइ। मिगारि उ सरं पप्प सरुप्पत्तिं विमग्गइ ॥२॥
554545
१ मण्डलः श्वा.
in Education International
For Personal & Private Use Only
www.jainelibrary.org